________________
समारोपात्तुल्यसाध्यारोपात् असौ सवनिवृत्तिनिश्चयः, नः यथा रजतसमारोपाद् न शुक्तिनिश्रयः; तत्वतस्तु तत् असभ्वं गृहीतम् - अध्यक्षेण परिच्छिन्नम् तस्य- अध्यक्षस्य यथाभावग्रहात् - प्रतिनियतधर्मकस्वलक्षणग्राहित्वात्, तद्बलेनैव तदुत्पत्तेः, अन्यधर्मानुकरणे भ्रान्तत्वप्रसङ्गात्, तद्धर्माननुकरणे चानुत्पत्तेरेवेति । अत्र यद्यपि वस्तुनो निवृत्तिधर्मकत्व सिद्धावध्यक्षस्य तद्ग्राहित्वसिद्धिः, तस्य तद्ग्राहित्वसिद्धौ च वस्तुनस्तथात्वसिद्धिः, अनुमानेऽपि प्रत्यक्षस्य मूलत्वात् इति स्फुट एवान्योन्याश्रयः, तथाऽप्युत्कटदोषान्तरमाह- अदोऽप्यतिप्रसङ्गादसत् - अकिञ्चित्करम् ।। २३॥
तथाहि
गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः । मितग्रहसमारोपादिति तत्त्वव्यवस्थितेः॥२४॥
गृहीतं सर्व- त्रैलोक्यम्, एतेन- अध्यक्षेण, तत्वतः- परमार्थतः, अनिश्चयः पुनः सर्वविषयः, मितग्रहसमारोपात्यावद् यत्र निश्चीयते तावत एव तत्रारोपात् इति एवम् तस्वव्यवस्थितेः स्खलक्षणाध्यक्ष स्वरूपोपपत्तेः संभवात् । त्रैलोक्यासंनिकर्षात् कथं तद्ग्रहणापादनम् १ इति चेत् । अभिप्रायानभिज्ञोऽसि, स्वलक्षणस्यैव त्रैलोक्यात्मकत्वापादनात् । इतरग्रहप्रतिबन्धक कल्पनापेक्षयेतराग्रहस्यैव कल्पने लाघवमिति चेत् । तदाऽसत्वस्याप्यग्रह एव कल्प्यताम्, किं समारोपेण तनिश्वयतिबन्धकल्पनया ? | यद्वा, परमार्थतोऽसदृशानामपि भावानां समारोपवलेन तादृशविकल्पोत्पादक दर्शन हेतुत्वे स्वयमनीला१ निवृत्तिधर्मकत्वसिद्धिः ।
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org