________________
सटीकः।
शास्त्रवार्ता- समुच्चयः ॥१२४॥
॥४
॥
परैरङ्गीकृतम् । ज्ञेयत्वमपि नास्त्येव तत्र, इत्यत्राह- तदभावे-शेयत्वाभावे, न तज्ज्ञानं- नासत्त्वज्ञानम् । तथा च, तभित्तेःसवनिवृत्तः, गतिः-परिच्छेदः, कथम् । ॥२१॥
पराभिप्रायमाहतत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि । गृह्यते तद्गतिस्तेन नैतत्कचिदनिश्चयात्॥२२॥
तत्- सचानुविद्धं वस्तु, तद्विधस्वभावं-निवृत्तिरूपधर्मकम् , यद्- यस्मात् , तस्मात् प्रत्यक्षेण- तथाभूतवस्तुग्राहिणा निर्विकल्पेन, तथैव हि - स्वधर्मवदेव, गृह्यते परिच्छिद्यते । यत एवं, तेन कारणेन, सद्गतिः- सत्त्वानिवृत्तिगतिः । यद्यप्येवमपि तदधर्मभूतनिवृत्तेभ्रमविषयतयापि ज्ञेयत्वस्वभाववत् कार्यत्वस्वभावो विरुद्ध एव, तथापि वस्तुस्थित्या समाधान माह- नैतद् यदुक्तं परेण- 'प्रत्यक्षेणैव सत्त्वनिवृत्तिह्यते' इति । कुतः ?, इत्याह- कचिदनिश्चयात्- प्रतीत्यभावेन काप्यनिश्वयात् । यद्वा, कचित् सभागसंततावनिश्चयात् । निश्चय एव बध्यक्षकल्पकः, यथा नीलादिनिश्चयात् तदध्यक्षकल्पनम् , अन्यथा दान-हिंसाविरतिंचतसा स्वर्गपापणशक्तेरप्यध्यक्षत एवावसितेनं तत्र विप्रतिपत्तिः, इति तद्वयुदासार्थमनुमानप्रवर्तनं, शास्त्रविरचनं वा वैयर्थ्यमनुभवेत् ।। २२ ॥
पराभिमायमाशङ्कयाहसमारोपादसौ नेति गृहीतं तत्त्वतस्तु तत् । यथाभावग्रहात्तस्यातिप्रसङ्गाददोऽप्यसत्॥२३॥
॥१२४॥
Jain Education in
a
For Private & Personel Use Only
www.jainelibrary.org