SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ युक्त्या - न्यायेन, कथं समं स्वहेतोरेव जातत्वादिकल्पनम् ? इति ।। १९ ।। अत्रोत्तरम् - स एव भावस्तद्धेतुस्तस्यैव हि तदाऽस्थितेः । स्वनिवृत्तिस्वभावोऽस्य भावस्येव ततो न किम् ? ।। स एव भावो यस्याग्रिमक्षणेऽसच्वम्, तद्धेतुः असत्वहेतुः, तस्यैव हि भावस्य तदा- द्वितीयसमये, अस्थिते:अभवनात् । एतेन नियतानन्तरभावित्वं हेतु-फलभावाङ्गमुक्तं कार्यदर्शनेन तत्कुर्वद्रूपानुमानमपि निराबाधमेव, तथाविधक्षणकुर्वद्रूपक्षानुमानेऽप्यस्यैव बीजत्वाद कार्यसामान्ये सत्कुर्वद्रूपत्वेन तु न हेतुता, मानाभावात्, गौरवाच्च । यदि चाभावस्य भावीकरणमेव तद्व्यापारः, अन्यथानुपयोगादिति संप्रदायः, तदा कार्यदर्शन वलाद् भावस्याभावीकरणमपि हेतुव्यापारasarयं स्वीकर्तव्यमिति । अधिकमये । तथा, स्वनिवृत्तिः स्वात्मनिवृत्तिः स्वभावो धर्मः अस्य असवस्य, भावस्येव, हेतु सामर्थ्यात् । यत एवम्, ततो न किं युक्त्या समं स्वहेतोरेव जातत्वादिकल्पनम् १ ॥ २० ॥ उपचयमाह ज्ञेयत्ववत्स्वभावोऽपि न चायुक्तोऽस्य तद्विधः । तदभावे न तज्ज्ञानं तन्निवृत्तेर्गतिः कथम् ? ॥ न चास्य- असवस्य, तद्विधः- सद्भवनलक्षणः स्वभावोऽपि ज्ञेयत्वस्वभाववदयुक्तः, भावस्वभावत्वाभाव एव हि तुच्छत्वम्, न तु सर्वथा निःस्वभावत्वम् । अत एव शशविषाणादावखण्डेऽप्यनादिवासनामभवविकल्पगोचरतया ज्ञेयत्वं Jain Education Ional For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy