________________
Jain Education Inter
च नाशे समुत्पन्ने न भावस्य निवृत्तिः इति कथं क्षणिकत्वम् ?" इत्यध्ययनाविद्धकर्णोद्योतकरादीनामपि मतं परास्तम् । अत्राह - इति चेत् । एतदपि - क्षणस्थितिधर्मकत्वम् हि निश्चितम् अस्य द्वितीयादिक्षणास्थितौ सत्यां युज्यते, तथा चोक्तानतिक्रमः- उक्तदोषापरिहारः ।। १३ ॥
इदमेव भावयति —
क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसंगतेः । न पश्चादपि सा नेति सतोऽसत्त्वं व्यवस्थितम्॥ क्षणस्थितौ - क्षणस्थितिरूपस्यैव क्षणस्थितिधर्मकत्वस्याभ्युपगमे, तदैव द्वितीयादौ क्षण एव अस्य भावस्य, अस्थितिर्न भवति, युक्त्यसंगते:- क्षणस्थिति-क्षणास्थित्योर्युक्त्या विरोधात् । न चेष्टापत्तिरित्याह- न पश्चादपि - द्वितीयादिक्षणेsपि, सा- अस्थितिः, न, तदस्थितेरेवानुभवात् क्षणिकत्व भङ्गप्रसङ्गाच्च । न च द्वितीयादिक्षणस्थितिरपि निवृत्तिरूपा संव्यवहाव, तात्विकत्वाद्यक्षणस्थितिरूपेति न दोष इति वाच्यम्, अभावस्याधिकरणानतिरेकेण द्वितीयादिक्षणरूपत्वात्, द्वितीयादिक्षणास्थितेः । अतो द्वितीयादिक्षणेषु सतः घटादेः असत्त्वं व्यवस्थितम् - सिद्धम् । तथाच 'संतोऽसच्चे' इत्याद्युक्तदोषानतिक्रम एव ॥ १४ ॥ अत्रैवाक्षेप परिहारावाह
1
१ कारिका द्वादशी ।
For Private & Personal Use Only
ww.jainelibrary.org