________________
समाज
शास्त्रवार्ता तथाहि
o सटीकः। समुच्चयः। संतोऽसत्त्वे तदुत्पादस्ततोनाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदानाशे न तत्स्थितिः१२ स्तबकः।
V ॥४॥ सतः- क्षणिकभावस्य, असत्त्वे-द्वितीयादिक्षणेऽसचे सति, तदुत्पादः- असत्त्वोत्पादः, कादाचित्कत्वात् । ततःउत्पादाद , नाशोपि, तस्य-असत्त्वस्य; कृतकत्वात् । यद्- यस्मात् कारणात् । तत्- तस्मात् , नष्टस्य सतः, पुनर्भावः, तदसचनाशाधिकरणक्षणत्वस्य तदधिकरणत्वव्याप्यत्वादिति भावः । नाशस्य नित्यत्वाद् नदोष इति चेत् । तर्हि सदानाशे, न तस्थितिः-प्रथमक्षणेऽपि भावस्य स्थितिर्न स्यात् ।। १२॥
पराभिप्रायमाहसक्षणस्थितिधर्माचे द्वितीयादिक्षणास्थितौ। युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः १३
सः- भावनाशः, क्षणस्थितिधर्मा- भाव एव । अयं भावः- द्विविधो ह्यस्माकं विनाशः, सांव्यवहार्यः, तात्त्विकश्च । आयो भावनिवृत्तिरूपः । द्वितीयश्च भावरूपः। तत्र कार्यकाले कारणनितिकल आद्यमेव नाशमवलम्बते । वस्तुव्यवस्थापकस्त्वाद्य एव । एतेन 'कार्योत्पत्तिकाल एव कारणविनाशाभ्युपगमे कारणोत्पादरूपत्वात् तस्य सहभावेन कार्य-कारणभावव्यवस्थोत्सदेत , कारणोत्पादात् कारणविनाशस्य भिन्नत्वाभ्युपगमे च कृतकत्वस्वभावत्वमनित्यत्वस्य न भवेत् । व्यतिरिक्त अभावाभावस्य भावात्मकत्वादिति पर्यवसितोऽर्थः । २ अस्माकम्- बौद्धानां मते ।
॥१२॥
Jain Education International
For Private & Personel Use Only
Haliww.jainelibrary.org