________________
ऽशुभादिकम् , तत्रैव, संघसे- जनयति । किंवत् ?, इत्याह- यथा कांसे लाक्षारसाद्याहिता रक्तता कर्मास एव खफलं स्वोपरक्तबुद्ध्यादिकं जनयति ॥९॥
अत्रोत्तरम्एतदप्युक्तिमात्रं यन्न हेतु-फलभावतः। संतानोऽन्यः स चायुक्त एवासत्कार्यवादिनः॥१०॥
एतदपि- संतानैक्यमादाय समाधानमपि, उक्तिमात्रं- युक्तिशून्यं वचनम् , यद्- यस्मात् कारणात् , हेतु-फलभावत:-पूर्वा-ऽपरक्षणहेतु-हेतुमद्भावात् , अन्यः संतानो नास्ति । एवमपि नानुपपत्तिः, खजन्यतासंबन्धेनानुभवादेः स्मृत्यादिनियामक त्वात् , प्रत्यभिज्ञाया अपि स एवायं गकारः' इत्यादाविव तज्जातीयाभेदविषयकतयोपपत्तेः, इच्छादेरपि समानप्रकारकतयैव प्रवृत्यादिहेतुतयोपपत्तेश्च इत्यत आह- स च-क्षणिकहेतु-हेतुमद्भावश्च, असत्कार्यवादिनो मते, अयुक्त एव ॥१०॥
तथाहिनाभावो भावतां याति शशशृङ्गे तथाऽगतेः।भावो नाभावमेतीह तदुत्पत्यादिदोषतः॥११॥
न अभावः- तुच्छः; भावतां याति- अतुच्छता प्रतिपद्यते । कुतः १, इत्याह- शशशृङ्गे, तथा- भावत्वेन, अगतेःअपरिच्छेदात् । तथा, भावः- अतुच्छः, नाऽभावमेति-न तुच्छतां याति, इह- जगति । कुतः ? इत्याह- तदुत्पत्यादिदोषत:अभावोत्पत्त्यादिदोपासनात् ॥ ११ ॥
Jan Education inte
For Private Personel Use Only