________________
शाखवार्ता
समुच्चयः ॥१२॥
तथा
सटीकः। स्वकृतस्योपभोगस्तु दूरोत्सारित एव हि । शीलानुष्ठानहेतुर्यःसनश्यति तदैव यत् ॥७॥ स्तबकः ।
स्वकृतस्य- शुभादेः, उपभोगः-विपाकानुभवः, दूरोत्सारित एव, हि-निश्चितम्ः प्रवृत्तभ्रमादिना कथश्चिदुपपत्तावपि स्वकृतोपभोगोपपादने न कोऽप्युपाय इति भावः। कुतः ?, इत्याह- यत्- यस्मात् कारणात् , यः शीलानुष्ठानहेतुः क्षणः, स तदेव, नश्यति-निरन्वयनाशभाग भवति ॥ ७॥
पर आहसंतानापेक्षयास्माकं व्यवहारोखिलो मतः। स चैक एव तस्मिंश्च सति कस्मान्न युज्यते?cks
संतानापेक्षया- भूत-वर्तमान-भविष्यत्क्षणप्रवाहापेक्षया, अस्माकम् , अखिलः- ऐहिक आमुष्मिकश्च, व्यवहारः, मत:इष्टः । स च- संतानः, एक एव । तस्मिंश्च सति कस्माद् न युज्यते स्मृत्यादिः, ऐहिकतयोपपत्तेः ॥ ८॥
आमुष्मिकमधिकृत्याहयस्मिन्नेव तु संताने आहिता कर्मवासना । फलं तत्रैव संधत्ते कसे रक्तता यथा ॥९॥
यस्मिन्नेव संताने-क्षणप्रवाहे, तुराधानयोग्यतां विशेषयति, कर्मवासना, आहिता- कर्मणा जनिता, फलं- शुभा- १२an १ अस्माकं- बौद्धानामित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org