________________
सहार
नुमानादीनामप्यमामाण्यप्रसङ्गात् । न चाध्यक्षे पूर्वकालसंबन्धिताया असंनिहितत्वात् परामर्शानुपपत्तिः, अन्त्यसंख्येयग्रहणकाले 'शतम्' इति प्रतीतेः क्रमगृहीतसंख्येयाध्यवसायतत्संस्कारवशादुपपत्तेः । न च नील-पीतयोरिव वर्तमाना-वर्तमानत्वयोविरुद्धत्वादेकत्र तत्परिच्छेदरूपत्वादयं भ्रमः, अत एव तस्य तादृशापरापरविषयसंनिधानदोषजन्यत्वमिति वाच्यम् । एकत्र नानाकालसंबन्धस्याऽविरुद्धत्वात् । अन्यथा नीलसंवेदनस्यापि स्थूराकारावभासिनो विरुद्धदिसंबन्धात् प्रतिपरमाणु भेदप्रसक्तेस्तदवयवानामपि षट्योगाद् भेदापत्तितोऽनवस्थाप्रसक्तेः।
न च क्षणिकत्वानुमानेनाऽस्या बाध इति शङ्कनीयम् , निश्चितप्रामाण्यकत्वेनाऽनयैर्व तद्वाधात् कुर्वदूपत्वसिद्धावुपस्थितवद्वित्वादिकं विहाय वढ्यादेर्विजातीयवद्वित्वादिना हेतुत्ववद् विजातीयधूमत्वादिना धूमादेः कार्यत्वसंभावनयोपस्थितधूमत्वावच्छेदेन कार्यत्वाग्रहात् , तदनुकूलतर्काभावेन व्याप्तेरग्रहात् , प्रसिद्धानुमानस्याप्युच्छेदेन क्षणिकत्वानुमानस्यैवाऽनवताराच्च । घटे रूपादेरियोक्तमत्यभिज्ञायां पूर्वताया वर्तमानत्वेनैव भानाद् भ्रमत्वमित्यपि न वाच्यम् , संनिहित एव विशेषणे विद्यमानताया संसर्गादिना भानादिति दिक् ।
तथा, दृष्टकौतुकेऽर्थे, उद्वेगः- सिद्धत्वज्ञानकृतेच्छाविच्छेदरूपः, असंगतः स्यात् , क्षणिकतम्यक्त्यन्तरदर्शनस्यासिद्धत्वात् । तथा, प्रवृत्तिरपि- तद्यक्तिविषयिणी, असंगता स्यात् , ज्ञाताया व्यक्तेनष्टत्वात् , अज्ञातायां चाप्रवृत्तेः। तथा, प्राप्तिरेव च इच्छाविषयव्यक्तः, असंगता, अस्याः प्रागेव नाशात् ॥६॥
१ अस्याः- प्रत्यभिज्ञायाः । २ अनयैव- प्रत्यभिज्ञया । ३ क्षणिकत्वानुमानयाधात् ।
in Education Interation
For Private
Personel Use Only
viainelibrary.org