________________
शास्त्रवार्ता -
समुच्चयः । ॥ ११९॥
अत्रापि - बौद्धवादेऽपि, अन्ये- जैनाः, अभिदधति- उत्तरयन्ति । किम् ?, इत्याह- क्षणिकत्वे स्मरणादेरसंभवात्, बाह्यार्थवेदनाचैव - बाह्यार्थप्रमान्यथानुपपत्त्या ज्ञानमात्रासिद्धेश्चैवेत्यर्थः, सर्वमेतत्- दिमात्रेण निर्दिष्टं सौगतमतद्वयम्, अपार्थकं - निष्प्रयोजनम् ॥ ४ ॥
स्मरणासंभवमुपपादयति
अनुभूतार्थविषयं स्मरणं लौकिकं यतः । कालान्तरे तथा नित्ये मुख्यमेतन्न युज्यते ॥५॥ अनुभूतार्थविषयं- ज्ञातार्थगोचरम्, लौकिकम् - आगोपादिसिद्धम्, यतः - यस्मात्, कालान्तरे - अनुभवव्यवहितोतरकाले, तथा - प्रतिनियतरूपेण अनित्ये- निरन्वयनश्वरेऽनुभवितरि, मुख्यम्- अभ्रान्तमेव, एतत् स्वसंवेदनसिद्धं स्मरणम्, नोपपद्यते - अन्येनानुभवेऽन्यस्य स्मरणायोगात्, ' योऽहमन्वभवं सोऽहं स्मरामि ' इत्युल्लेखानुपपत्तेश्च ॥ ५ ॥
प्रत्यभिज्ञापि न युज्यते, इत्याह-
सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसंगता । दृष्टकौतुकेयुद्वेगः प्रवृत्तिः प्राप्तिरेव वा ॥६॥ ‘सोऽयमन्तेवासी' ‘सोऽयं गुरुः' इति प्रत्यभिज्ञापि क्षणिकत्वपक्षेऽसंगता, तत्ताविशिष्टा भेदस्येदंता विशिष्टेऽनुपपत्तेः । न च प्रत्यभिज्ञा न प्रमाणम्, 'सैवेयं गूर्जरी' इत्यादौ विषयवाधदर्शनादिति वाच्यम्; एवं सति हेत्वाभासादिदर्शनात् सद१ सर्वत्र मूले स्वोपज्ञटीकायां च 'कमुद्रे' इति प्रथमान्त एव पाठ आहतः ।
Jain Education International
For Private & Personal Use Only
सटीकः । स्तबकः ।
॥ ४ ॥
॥ ११९॥
www.jainelibrary.org