________________
तुत्वादकारकावस्थात्यागात् कार्यानुत्पत्तिरेव । इतरहेतुसंनिधान एव कार्य जनयतीति हेतोः स्वभाव इति चेत । तझुत्पत्यनन्तरमेव स्वभावानुपविष्टत्वादितरहेतून मेलयेदिति ।
तृतीये परिणामस्याऽन्यथाभावरूपस्य पूर्वरूपपरित्यागं विनाऽभावात् , तस्य चानुभवसिद्धत्वात् क्षणिकत्वसिद्धिः।
चतुर्थेऽप्यन्ते क्षयदर्शनात् तदन्यथानुपपत्त्या प्रागपि तत्सिद्धिः। इह प्रत्यक्षानुपपत्तिर्मूलम् , आये तु स्वभावानुपपत्तिरिति विशेषः ॥२॥
योगाचारमतप्रयोगमाहज्ञानमात्रं च यल्लोके ज्ञानमेवानुभूयते । नार्थस्तव्यतिरेकेण ततोऽसौ नैव विद्यते ॥३॥
___ज्ञानमात्रं च 'जगत्' इति शेषः । चकारेण क्षणिकत्वसमुच्चयः । हेतुमाह- यद्- यस्मात् , लोके ज्ञानमेवाऽनुभूयते, अर्थस्तव्यतिरेकेण नानुभूयते, तस्य जडत्वाभ्युपगमात् , ज्ञानविषयताया ज्ञानाभेदनियतत्वात् । ततः, असौ- संवृतिसिद्धोऽर्थः, नैव विद्यते- पारमार्थिको नेत्यर्थः ॥३॥
अत्र समाधानवार्तामाहअत्राप्यभिदधत्यन्ये स्मरणादेरसंभवात् । बाह्यार्थवेदनाच्चैव सर्वमेतदपार्थकम् ॥ ४ ॥
१ क्षयेक्षणरूपे चतुर्थे हेतौ । २ नाशहत्वयोगरूपे प्रथमे हेतौ। ३ संवृतिः- कल्पना ।
PIGHEROSPES
Jan Education Inter!
For Private
Personal Use Only
A
w
.jainelibrary.org