________________
शास्त्रवार्ता
समुच्चयः।
सटीकः। स्तबका। ॥४ ॥
॥११८॥
तथाहितयाहुःक्षणिकं सर्वनाशहेतोरयोगतः। अर्थक्रियासमर्थत्वात् परिणामात्क्षयेक्षणात्॥२॥
ते- सौगताः, आहुः- प्रतिजानते । किम् ?, इत्याह- सर्व क्षणिकमिति । अत्र हेतुचतुष्टयम्- नाशहतोरयोगत इत्याद्यो हेतुः, अर्थक्रियासमर्थत्वादिति द्वितीयः, परिणामादिति तृतीयः, अतादवस्थ्यादित्यर्थः, क्षयेक्षणादिति तुर्यः, अन्ते क्षयदर्शनादित्यर्थः।
अत्राद्यहेतुना स्थायित्वासिद्धौ साध्यसिद्धिः, तथाहि- नाशहेतुभिर्नश्वरस्वभावो भावो नाश्येत, अतादृशो वा। आये, प्रयासवैफल्यम् । द्वितीये तु स्वभावपराकरणस्य कर्तुमशक्यत्वादनाशप्रसङ्गः । कियत्कालस्थायित्वस्वभावस्यैव कार्यस्य हेतुभिर्जनने च तादृशस्वभावस्योदयकाल इवान्तकालेऽपि सत्त्वात् पुनस्तावन्तं कालमवस्थानापत्तिरिति ।
द्वितीयेऽप्यर्थक्रियासमर्थत्वं स्थायिनो निवर्तमान क्षणिक एव भावे विश्राम्यति; तथाहि- स्थायी भावः क्रमेण वा कार्य कुर्यात , अक्रमेण वा ? । द्वितीये, एकदैव सर्वकार्योत्पत्तिः । आये चार्थक्रियाजननस्वभावत्वे प्रागेव कुतो न कुर्यात् । सहकार्यभावादिति चेत् । किं सहकारित्वम् ?- अतिशयाऽऽधायकत्वम् , एककार्यप्रतिनियतत्वं वा । आये, अतिशयाधानेनैव कारकोपक्षयः, अतिशयस्य भेदे च सहकार्यनुपकारः, अभेदे च बलाद् भिन्नस्वभावत्वम् । द्वितीये साहित्येऽपि पररूपेणाऽहे-
॥११८॥
JainEducation international
For Private Personal use only