________________
सभास्करसरातर
॥ अहम् ॥
अथ चतुर्थः स्तबकः। यस्याभिधानाज्जगदीश्वरस्य समीहितं सिध्यति कार्यजातम् ।
सुरा-ऽसुराधीशकृताहिसेवः पुष्णातु पुण्यानि स पार्श्वदेवः ॥ १॥ अङ्कारूढमृगो हरिन भुजगाऽऽतङ्काय साऽसुहृद् निःशङ्काश्च सुरा-ऽसुरा न च मिथोऽहङ्कारभाजो नृपाः । यद्याख्याभुवि वैर-मत्सरल वाशङ्कापि पङ्कावहा श्रीमद्वीरमुपास्महे त्रिभुवनालङ्कारमेनं जिनम् ॥ २॥
वातान्तरमाहमन्यन्तेऽन्ये जगत्सर्वक्लेशकर्मनिबन्धनम्। क्षणक्षयि महाप्राज्ञा ज्ञानमात्रं तथा परे ॥१॥
अन्ये- सौत्रान्तिकाः सौगताः, सर्व- चराचरम् , जगत् , क्लेशकर्मनिबन्धनं- रागादिनिमित्तम् , तथा, क्षणक्षयिप्रतिक्षणनश्वरम् , मन्यन्ते । तथा, महापाज्ञाः- तेभ्योऽपि मूक्ष्मबुद्धयः, परे- योगाचाराः, ज्ञानमात्रं- क्षणिकविज्ञानमात्रं जगद् मन्यन्ते ।। १॥
Sea
Jain Education Interes
For Private & Personel Use Only
Filingr-jainelibrary.org