SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Education वावधिकोत्कर्षेण समं सांकर्यात् तादृशजात्यसिद्धेश्व; वस्तुतः प्रदीपमभाया इवात्मनः संकोच विकाशाभ्यां परिमाणभेदस्याsभ्युपगमेन सर्वथा नित्यमहत्त्वासिद्धेश्व | कथं चात्मनो विभुत्वे स्वस्मिन् क्रियादिप्रतीतिः, तीर्थगमनादेरदृष्टहेतुत्व श्रवणादिकं चोपपादनीयम् ? । कथं वात्मनः सर्वगतत्वात् स्वशरीरादन्यत्रापि न ज्ञानाद्युत्पाद: ? । शरीराभावादिति चेत् । न, अन्यशरीरस्य सत्त्वात् । स्वशरीराभावादिति चेत् । न, स्वसंयुक्तत्वेन तस्याऽपि स्वीयत्वात् । स्वादृष्टोपगृहीतशरीराभावादिति चेत् । तर्हि उपजीव्यत्वात् तददृष्टस्यैव तदज्ञानादिहेतुत्वात् तस्य शरीरव्यापितयाऽऽत्मनस्तथात्व सिद्धिः तदुक्तम् - "यत्रैव यो दृष्टगुणः स तत्र०" इत्यादि । अपिच, आत्मविश्रुत्ववादे ज्ञानादीनामव्याप्यवृत्तित्वादिकल्पने गौरवमिति न किश्चिदेतत् । अधिकं न्यायालोकादौ ॥ ४३ ॥ उपसंहरन्नाह एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः॥४४॥ एवम् उक्तप्रकारेण, हि- निश्चितम् प्रकृतिवादोऽपि सत्य एव विज्ञेयः, नानृतः । उपपच्यन्तरमाह- कपिलोक्तत्वतचैव द्रव्यार्थिकन यावलम्विकपिलप्रणीतत्वाच्चैव । तेनावृत एवायं वाद उक्तो भविष्यतीत्यत आह- हि यतः, स महामुनिः, दिव्यः- अद्भुतशीलाचरणशाली, अतो नानृतं ब्रूयात् इति तस्याऽप्ययमेवाभिप्राय इति भावः ॥ ४४ ॥ १ हेमचन्द्राचार्यविरचितायामन्ययोगव्यवच्छेदद्वात्रिंशिकायां श्लो० ९ । tional For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy