________________
शाखवातासमुच्चयः। ॥११६॥
सटीकः। स्तबकः। ॥३॥
मृर्तयापि-प्रकृत्या, आत्मनो योगः 'संभवति' इति शेषः । दृष्टान्तमाह- यथा घटेन नभसः । घटेन संयुक्तमपि नभो न घटस्वभावता यातीति न दोष इति चेत् । स संयोगः किं घटस्वभावः, नभावभावः, उभयस्वभावः, अनुभयस्वभावो वा ? । आद्ययोरुभयनिरूप्यत्वानुपपत्तिः । तृतीये च बदतो व्याघातः, घटस्वभावसंयोगवत्तया नभसो घटस्वभावत्वात् । चतुर्थे त्वनुपाख्यत्वापत्तिः । इति न किञ्चिदेतत् ।
___ अस्तु तर्हि नभसो घटादिनेव कर्मणा जीवस्य संबन्धः, ततोऽनुग्रहो-पघातौ तु तस्य नभस्त्रदेव नः इत्यत आहउपघातादिभावश्च- उपघाता-ऽनुग्रहभावश्च मूर्तीया अपि कर्मप्रकृतेः सकाशात् , सुरादिना- सुरा ब्राह्मी-घृतादिना, ज्ञानस्येव युक्तः, अङ्गा-ङ्गिभावलक्षणसंबन्धप्रयोज्यत्वात् तस्येति भावः ।
ननु सर्वमिदमात्मनोऽविभुत्वे संभवति, तदेव चाद्यापि न सिद्धमिति चेत् । न, शरीरानियतपरिमाणवत्वेनैवाऽऽत्मनोऽनुभवात् मूर्तत्वसंशयस्य ज्ञानप्रामाण्यसंशयादिनोपपत्तेः । न च द्रव्यप्रत्यक्षत्वावच्छिन्नहतोर्महत्वस्याऽऽत्मनि सिद्धी तेस्यावयवमहत्त्वाद्यजन्यत्वेन नित्यतया 'आत्मा विभुः, नित्यमहत्त्वात् , आकाशवत्' इत्यनुमानात् तस्य विभुत्वमेव युक्तमिति वाच्यम् ; नित्यमहत्त्वेऽप्यपकृष्टपरिमाणवत्वे बाधकाभावेनाप्रयोजकत्वात् । अपकृष्टत्वे तस्य जन्यत्वापत्तिर्वाधिका, गगनमहत्वावधिकापकर्षस्य बहुत्वजन्यतावच्छेदकत्वादिति चेत् । न, परमाणुपरिमाणसाधारणतयाऽस्य कार्यतानवच्छेदकत्वात , त्रुटिम
। उपचातानुग्रहभावस्य । २ तस्य- आत्मनः । ३ गगनमहत्वावधिकापकर्षस्य ।
FOROSER
For Private
Personal use only
www.jainelibrary.org