________________
शाखवातासमुच्चयः। ॥११५॥
COISSIS
"एवं एगे आया एगे दंडे अ होइ, किरियाए । करणविसेसेण य तिविहजोगसिद्धी वि अविरुद्धा"॥१॥
सटीकः। नन्वेवमन्तहर्ष-विषादायनेकविवर्तात्मकमेकं चैतन्यम् , बहिर्बाल-कुमार-यौवनायनेकावस्थात्मकमेकं शरीरमध्यक्षतः संवेद्यतन
स्तवकः। इत्यस्य विरोधः, बाह्या-ऽभ्यन्तरविभागाभावादिति चेत् । सत्यम् , आत्मभिन्नत्वा-ऽभिन्नत्वाभ्यां तदभावेऽपि मानसत्वा-ऽमान सत्वाभ्यां तद्यपदेशात् । तदाह
"णे य बाहिरओ भावो अब्भंतरओ अ अत्थि समयम्मि । णोइंदियं पुण पहुच होइ अन् तरविसेसों ॥१॥"
सर्वस्यैव मूर्ता-ऽमूर्तादिरूपतयाऽनेकान्तात्मकत्वात् । 'अयं बाह्यः, अयं चाभ्यन्तरः' इति समये न वास्तवो विभागः, अभ्यन्तर इति व्यपदेशस्तु नोइन्द्रियं मनः प्रतीत्य, तस्याऽऽत्मपरिणतिरूपस्य पराप्रत्यक्षत्वात् , शरीर-वाचोरिव । न च तद्वदेव तस्य परप्रत्यक्षत्वापत्तिः, इन्द्रियज्ञानस्याशेषपदार्थखरूपग्राहकत्वायोगात् । एवं च स्याद्वादोक्तिरेव युक्ता, न तु परस्परनिरपेक्षनयोक्तिविना श्रोतृधीपरिकर्मणानिमित्तम् , वस्तुनोऽनेकान्तात्मकत्वात् , तदाह
१ एवमेक आस्मैको दण्डश्च भवति, क्रियया । करणविशेषेण च त्रिविधयोगसिद्धिरप्यविरुद्वा ॥१॥ २ ग. घ. च. 'या य'। ३ मुद्रितसम्मतिसूत्रे 'दी उ अ'। ४ सम्मतिसूत्रे गाथा ४९ ।
॥११५॥ ५ नं च बायको भावोऽभ्यन्तरकश्चास्ति समये । नोइन्द्रियं पुनः प्रतीत्य भवत्यभ्यन्तरविशेषः ॥1॥ ६ मुद्रितपुस्तके 'न य' इति पाठः । ७ मुद्भिते 'तरो भावो' इति पाठः । ८ सम्मतिसूत्रे गाथा ५० ।
Jain Education
For Private Personel Use Only
www.jainelibrary.org