________________
Jain Education Inte
विभागदर्शनात्, नरत्वादेरेकनिष्ठत्वेऽतिप्रसङ्गात् ; व्यासज्यवृत्तित्वे च परस्यापसिद्धान्तः, व्यासज्यवृत्तिजात्यनभ्युपगमात्, एकाश्रयत्वानुभवविरोधात्, शरीराप्रत्यक्षेऽप्यन्धकारे नरत्वप्रतीत्यनुपपत्तेश्च । तदिदमाह भगवान् सम्प्रतिकारः
" अण्णोण्णाणुरायाणं इमं व तं वत्ति विभयणमजुत्तं । जह दुद्ध-पाणियाणं जावंता विसेसपज्जायां ॥ १ ॥” अन्योन्यानुगतयोरात्म-कर्मणोर्दुग्ध-पानीययोरिव यावन्तो विशेषपर्यायास्तावत्सु 'इदं वा तद् वा' इति विभजनमयुक्तम्, प्रमाणाभावात् । एवं तर्हि ज्ञानादयोऽपि देहे स्युः, देहरूपादयोऽप्यात्मनीति चेत् । इष्टापत्तिः । तदाह
" रुवाइपज्जया जे देहे जीवदवियम्मि सुद्धम्मि । ते अण्णोष्णाणुगया पण्णवणिजा भवत्थम्मिं ॥ १ ॥ " इति । ‘गौरोऽहं जानामि’ इत्यादिधियस्तथैवोपपत्तेः, रूपादि-ज्ञानादीनामन्योन्यानुप्रवेशेन कथञ्चिदेकत्वाऽनेकत्व-मूर्तत्वाsमूर्तत्वादिसमावेशात् । अत एव दण्डात्मादीनामेकत्वम्, अनेकत्वं च स्थानाङ्गे व्यवस्थितम् । तदाह
१ सांख्यस्य । २ अन्योन्यानुगतयोरिदं वा तद्वेति विभजनमयुक्तम् । यथा दुग्ध-पानीययोर्यावन्तो विशेषपर्यायाः ॥ १ ॥ ३ मुद्रितमूलादर्शे सम्मतिसूत्रे 'अन्नोन्नाणु' इति पाठः । ४ 'णिआणं' इत्यपि तत्र । ५ सम्मतिसूत्रे गाथा ४७ ।
६ रूपादिपर्ववा ये देहे जीवद्रव्ये शुद्धे । तेऽन्योन्यानुगताः प्रज्ञापनीया भवस्थे ॥ १ ॥
७ मुद्रितसम्मतिपुस्तके 'पन्नाव' इति पाठः । ८ सम्मतिसूत्रे गाथा ४८ ।
For Private & Personal Use Only
www.jainelibrary.org