________________
शाखवाता
| कर्मा-ऽऽत्मनोयोरपि बन्धन-वध्यस्वभावपरिणामात् तथोपपत्तेः, नोक्तदोषस्याऽनिर्मोक्षादेः समुद्भवोऽवकाशः ॥ ४० ॥ सटीकः। समुच्चयः परः शङ्कते
| स्तबकः। ॥११४॥ नामूर्त मूर्ततां याति मूर्त नायायमूर्तताम् । यतो बन्धाद्यतो न्यायादात्मनोऽसंगतं तया॥४॥
न अमृत- रूपादिसंनिवेशरहितम् , मूर्ततां- रूपादिमत्परिणतिम्, याति-आश्रयति, आकाशादौ तथादर्शनात । तथा. मूर्त- रूपादिमत् , अमूर्ततां- अमूर्तपरिणतिम् , न, आयाति- परमाण्वादिषु तत्सद्भावासिद्धेः, यतः- यस्मादेवं न स्वE रूपविपर्ययो भवति, अतः- अस्मात् , न्यायात-नियमात् , तया- कर्मप्रकृत्या, आत्मनो बन्धाद्यसंगतम् ॥४१॥
अत्रोत्तरम्देहस्पर्शादिसंवित्त्यान यात्येवेत्ययुक्तिमत्। अन्योन्यव्याप्तिजा चेयमिति बन्धादि संगतम्४२
देहे स्पर्शः कण्टकादिस्पर्शः, उपघातहेतूपनिपातोपलक्षणमेतत् , आदिनाऽनुग्रह-हेतूपनिपातसंग्रहः, तत्संविच्या- तजनितसुख-दुःखानुभूत्या, यात्येव 'अमूर्त मूर्तताम्' इति प्राक्तनानुषङ्गः, इति- एतत् , अयुक्तिमत्- अनुभवबाधितम् । घटादिसंवित्तिवद् देहस्पर्शादिसंवित्तिरात्मनोऽतन्मयत्वेऽप्युपपत्स्यत इत्यत आह- इयं च-देहस्पर्शादिसंवित्तिश्च, अन्योन्यव्याप्तिजागुड-शुण्ठीद्रव्ययोरिव शरीरा-ऽऽत्मनोर्जात्यन्तरतापत्तिप्रभवा, प्रतिप्रतीकं तदनुभवात् , एकाभावेऽप्यभावाच । युक्तं चैतत् , अ- ॥११४ ॥
Jain Education Internal
For Private Personal use only
www.jainelibrary.org