SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ लभ्यते । अनाविर्भावादिति चेत् । कोऽयमनाविर्भावः। उपलब्धेरभावश्चेत् । सैवं कथम् !, इत्याक्षेपे तदेवोत्तरम् , इति घट्टकुठ्या प्रभातम् । अथोपलब्धियोग्यस्यार्थक्रियाकारिरूपस्य विरहोऽनाविर्भाव इति चेत् । असत्कार्यवादः, तादृशरूपस्य प्रागसतः पश्चाद्भावात् । विजातीयसंयोगस्य तदवच्छेदेन सन्निकर्षस्य वा व्यञ्जकस्याऽभावाद् न प्रागुपलब्धिरिति चेत् । तर्हि तस्यैव पागसवेऽसत्कार्यापातः । प्राक् सन्नेवाऽऽविर्भूतो व्यञ्जक इति चेत् । न, आविर्भावस्यापि सदसद्विकल्पग्रासात् । स्थूलरूपावच्छिन्नस्य प्रागसत्त्वाद् नोपलब्धिः, धर्म-धर्मिणोः सौम्य-स्थौल्ययोश्चैकत्वाद् नानवस्थेति चेत् । तर्हि सूक्ष्मरूपावच्छिन्नस्याऽहेतुकत्वेऽतिप्रसङ्गः । प्रकृतिमात्रहतुकत्वे च स्थूलतादशायामपि तदापत्तिः, अनिर्योक्षश्च, इति न किञ्चिदेतत् । तस्माच्छबलस्यैव | वस्तुनः कथञ्चित् सत्त्वम् , असत्त्वं चोपपत्तिमत् । तथा च बुद्धयादीनामहत्वसामानाधिकरण्येनाऽध्यवसीयमानत्वात् तद्धर्मतया तत्रैव समन्वयः, कर्मप्रकृतिस्तु तत्र निमित्तमात्रमिति प्रतिपत्तव्यम् ।। ३९ ।। एवं च न पूर्वोक्तदोष इत्याहतस्याश्चानेकरूपत्वात्परिणामित्वयोगतः। आत्मनो बन्धनत्वाच्च नोक्तदोषसमुद्भवः॥४०॥ तस्याश्च-कर्मप्रकृतेः, अनेकरूपत्वात- एकानेकशवलस्वभावत्वात् , परिणामित्वयोगतः- ज्ञानावरणादिविपाकपरिणामोपपनेः, एकरूपत्व एवाऽनेककार्यजनकत्वासंघवात् । आत्मनोऽन्योन्यानुप्रवेशेन बन्धनत्वात्- स्वरूपतिरोधायकत्वात् , उपलब्धिः । २ व्याजकत्वेनाऽऽन्नातस्य विजातीयसंयोगस्य तदवच्छेदेन संनिकर्षस्य वेत्यर्थः । Jain Education Intema For Private & Personel Use Only Sarcainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy