SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः ॥११३॥ निगमयति सटीकः। पुरुषस्योदिता मुक्तिरिति तन्त्रे चिरंतनैः । इत्थं न घटते चेयमिति सर्वमयुक्तिमत्॥३८॥ स्तबकः । इति- एतत्पकारे, तन्त्र- शास्त्रे, चिरंतनैः- पूर्वाचार्यैः, पुरुषस्य मुक्तिरुक्ता। न चेयं - पुरुषस्य मुक्तिः, इत्थम् - उक्तप्रकारेण विचार्यमाणा, घटते : इति हेतोः, सर्व-सांख्योक्तम् , अयुक्तिमत्-युक्तिरहितम् ॥ ३८ ॥ ___ अत्रापि यावद् यथोपपन्नं, तावतस्तथावार्तामाहअत्रापि पुरुषस्यान्ये मुक्तिमिच्छन्ति वादिनः। प्रकृतिं चापि सन्न्यायात्कर्मप्रकृतिमेव हि।३९।। अत्रापि- सांख्यवादे, अन्ये वादिनः- जैनाः, पुरुषस्य मुक्तिमिच्छन्ति प्रकृतिवियोगलक्षणाम् । प्रकृतिं चापि, सन्न्यायात्-सत्तर्कात् , हि-निश्चितम् , कर्मप्रकृतिमेवेच्छन्ति, बुद्ध्यादीनां निमित्तत्वात् । तत्समन्वयश्च कथञ्चिदात्मादावेवोपपद्यते । सर्वथा सत्कार्यवादे तु सतः सिद्धत्वेनाऽकरणात् , साध्यार्थितयैवोपादानग्रहणात , नियतादेव क्षीरादेः सामग्या दध्यादिदर्शनात् , सिद्धे शक्त्यव्यापारात् , तादात्म्ये स्वस्मिन्निव कार्य-कारणभावाद् विपरीतं हेतुपश्चकम् । यदि कारणव्यापारात् प्रागपि पटस्तन्तुषु सन्नेव, तदा किमित्युपलब्धिकारणेषु सत्सु, सत्यामपि जिज्ञासायां नोप १ "असदक." इति सांख्यकारिकाया नवम्या कारिकायां निर्दिष्टम् ,-'असदकरणम् , उपादानग्रहणम् , सर्वसंभवाभावः, शक्तस्य शक्यकरणम् , कारणतादात्म्यम्' इत्येवंरूपमित्यर्थः क्रमेण चैतेषां पञ्चानामपि 'सतः सिद्धत्वेनाकरणात्' इत्यादिनैकैकशो हेतुनाउन वैपरीत्यं द्रष्टव्यम् । ॥११३॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy