SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ दोषान्तरमप्याहमोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत्। स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः॥३६॥ मोक्षः प्रकृत्ययोगः, यत्- यस्मात् कारणात् ; "प्रकृतिवियोगो मोक्षः" इति वचनात् , अतो हेतोः, अस्याः- प्रकृतेः, सः- मोक्षः, कथं भवेत् ? । कुतः ?, इत्याह- स्वरूपविगमापत्तेः- प्रकृतिस्वरूपनिवृत्तिप्रसङ्गात् । पुरुषे तु तैव्यापारनिवृत्तिद्वारा तन्निवृत्तियुज्येतापि, न तु स्वस्मिन् स्वनिवृत्तिः संभवति, घटे घटनिवृत्त्यदर्शनात् , अप्रसक्तस्याप्रतिषेधात् । तथा, तन्त्रविरोधतोऽपि प्रकृतेर्मोक्षः कथम् ॥ ३६ ॥ ऐतदेवोपदर्शयन्नाहपञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥३७॥ पञ्चविंशतितत्त्वज्ञः- प्रकृति-महदादिपञ्चविंशतितत्त्वरहस्यपरिज्ञाता, यत्र तत्र-गृहस्थादौ, आश्रम, रतः- तत्त्वज्ञानाभ्यासवान् , जटी-जटावान् , मुण्डी-मुण्डितशिराः, शिखी वापि-शिखावानपि, मुच्यते-प्रकृति-विकारोपधानविलयेन स्वरूपावस्थितो भवति, बाह्यलिङ्गमत्राऽकारणम् । नात्र संशयः- इदमित्थमेव, वचनप्रामाण्यात् ।। ३७ ।। १ क. 'प्रवृत्त्य । २ तच्छब्देन प्रकृतिः परामृश्यते । ३ एतत्- तन्त्रम्- प्रकृते सायसिद्धान्त इति यावत् । For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy