________________
दोषान्तरमप्याहमोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत्। स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः॥३६॥
मोक्षः प्रकृत्ययोगः, यत्- यस्मात् कारणात् ; "प्रकृतिवियोगो मोक्षः" इति वचनात् , अतो हेतोः, अस्याः- प्रकृतेः, सः- मोक्षः, कथं भवेत् ? । कुतः ?, इत्याह- स्वरूपविगमापत्तेः- प्रकृतिस्वरूपनिवृत्तिप्रसङ्गात् । पुरुषे तु तैव्यापारनिवृत्तिद्वारा तन्निवृत्तियुज्येतापि, न तु स्वस्मिन् स्वनिवृत्तिः संभवति, घटे घटनिवृत्त्यदर्शनात् , अप्रसक्तस्याप्रतिषेधात् । तथा, तन्त्रविरोधतोऽपि प्रकृतेर्मोक्षः कथम् ॥ ३६ ॥
ऐतदेवोपदर्शयन्नाहपञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥३७॥
पञ्चविंशतितत्त्वज्ञः- प्रकृति-महदादिपञ्चविंशतितत्त्वरहस्यपरिज्ञाता, यत्र तत्र-गृहस्थादौ, आश्रम, रतः- तत्त्वज्ञानाभ्यासवान् , जटी-जटावान् , मुण्डी-मुण्डितशिराः, शिखी वापि-शिखावानपि, मुच्यते-प्रकृति-विकारोपधानविलयेन स्वरूपावस्थितो भवति, बाह्यलिङ्गमत्राऽकारणम् । नात्र संशयः- इदमित्थमेव, वचनप्रामाण्यात् ।। ३७ ।।
१ क. 'प्रवृत्त्य । २ तच्छब्देन प्रकृतिः परामृश्यते । ३ एतत्- तन्त्रम्- प्रकृते सायसिद्धान्त इति यावत् ।
For Private Personel Use Only
www.jainelibrary.org