________________
शास्त्रवार्ता- समुच्चयः। ॥११२॥
सटीकः। स्तबकः। ॥३॥
कुत्र तर्हि बन्ध-मोक्षौ ?, इत्यत आह-बध्यते प्रकृतिरेव, स्वात्मना- स्वपरिणामलक्षणेन बन्धन, मुच्यते चापि 'तेन प्रकृतिरेव, तत्रैव बन्धविश्लेषात् । पुरुषे तु तावुपचर्येते, भृत्यगताविव जय-पराजयो स्वामिनीति तदुक्तम्
"तस्माद् न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥१॥" इति । समाधत्ते- इति चेत् ॥ ३४ ॥
अत्रोत्तरम्एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा। तस्याः क्रियान्तराभावाद्वन्धमोक्षौ सुयुक्तितः॥३५॥
एकान्तेनैकरूपायाः- सर्वथैकस्वभावायाः, सर्वथा नित्यायाश्च- सर्वैः प्रकारैः प्रवृत्तिरूपैकक्रियायाश्च, तस्याः- प्रकृतेः, क्रियान्तराभावात-निवृत्तिक्रियाया अभावात् , सुयुक्तितः- सन्न्यायात् , बन्ध-मोक्षौ न । प्रकृति-पुरुषान्यताख्यातिरूपो हि व्यापारः पुरुषस्यैव, इति तस्यैव मोक्ष उचितः, न तु प्रकृतेः, तस्याः प्रवृत्येकरूपत्वात् । पुरुषार्थमचेतनत्वेन व्यापारायोगाच्च ।
किश्च, प्रकृतेर्मुक्तौ पुरुषस्य स्वरूपावस्थाने तस्याः साधारणत्वादेकमुक्तौ संसारोच्छेदः, प्रकृतिवदात्मनोऽपि सर्वगतत्वेन 'एकावच्छेदेन मुक्तिः, नान्यावच्छेदेन' इत्यपि वक्तुमशक्यत्वात् । 'तबुद्ध्यवच्छेदेन मुक्तत्वम् , नान्यबुद्ध्यवच्छेदेन' इत्यपि क्षीणाया बुद्धरनवच्छेदकत्वादनुद्धोष्यम् , बुद्धियोगेन पुरुषस्य संसारित्वे तस्यैव मोक्षपसगाच ॥ ३५ ॥
। स्वपरिणामलक्षणेन बन्धेन । २ तत्रैव-प्रकृती, बद्ध एव वा । ३ 'तेऽसौ न मु' इति सांख्यकारिकायां पाठः । ४ सांख्यकारिकायां कारिका ६२।
॥११॥
dan man
For Private Personal Use Only