________________
कथं शुभाशुभो बन्धः । अत्र शुभश्चाशुभश्चेति विग्रहे द्विवचनापत्तिः, कर्मधारये च बाध इति शुभेन सहितोऽशुभं इति व्याख्येयम् ।। ३२॥
ततः को दोषः १, इत्याहबधाहते नसंसारो मुक्तिर्वास्योपपद्यते।यमादि तदभावे च सर्वमेव ह्यपार्थकम् ॥३३॥
बन्धादृते- बन्धं विना, देव-नारकादिरूपः संसारो न । नवाऽस्य- आत्मनः, मुक्तिरुपपद्यते, बद्धानां कर्मणां क्षय एव हि मुक्तिरिति । तदभावे च- मुक्त्यभावे च; सर्वमेव, हि-निश्चितम्, यमादि- यम-नियमादिकं घोरानुष्ठानम् अपार्थकम्विपरीतप्रयोजनम् । कः खलु फलमनभिलषन्नेव दुष्करक्लेशैरात्मानमवसादयेत् ॥ ३३ ॥
पराभिमायमाहआत्मा न बध्यते नापिमुच्यतेऽसौ कदाचन।बध्यते मुच्यते चापि प्रकृतिः स्वात्मनेति चेत्३४
असौ-प्रत्यक्षसिद्धः, आत्मा न बध्यते-न प्राकृतिकादिबन्धपरिणतो भवति, सवासनक्लेशकाशयाना बन्धवेन समाम्नातानां पुरुषेऽपरिणामिन्यसंभवात् । नापि कदाचन मुच्यते- मुचर्बन्धनविश्लेषार्थत्वात् , तेस्य च सर्वदाऽबद्धत्वात् ।।
विरोधेन विशेषणविशेष्यभावाभावादित्यर्थः। २ मयूरव्यसकादित्वाद् मध्यमपदलोपी समासः, श्राजिनवत् । ३ ग, घ, च. 'दिक' । ४ मुद्रितमूले 'वापि' इति पाठः। ५ तस्य- आत्मनः।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org