________________
शास्त्रवाता- समुच्चयः ॥११॥
सटीकः । स्तबकः। ॥३॥
Sotes
ब्राह्मणात्मनस्तु नाश एव न, इति ब्राह्मणं घनतोऽपि सा न स्यात् । ब्राह्मणशरीरावच्छिन्नज्ञानजनकमनःसंयोगविशेषनाशानुकू- लो व्यापार एव ब्रह्महत्येति चेत् । न, तादृशमनःसंयोगस्य स्वत एव नश्वरत्वात् , साक्षाद्वातानुपपत्तेश्च । ब्राह्मणशरीरावच्छिन्नदुःखविशेषानुकूलव्यापार एव ब्रह्महत्येति चेत् । शरीराच्छरीरिणः सर्वथा भेदे तच्छेदादिना तस्य दुःखमपि कथम् । परम्परासंबन्धेन तदात्मसंवन्धादिति चेत् । साक्षादेव कथं न तत्संबन्धः । शरीरावयवच्छेदादात्मावयवच्छेद एव हि शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिरुपपद्यते, नाऽन्यथा, प्राणक्रियाया अपि तन्मात्रोपग्रहं विनाऽभावात् ।।
नन्वेवं छिन्नावयवानुपविष्टस्य पृथगात्मत्वप्रसक्तिः स्यादिति चेत् । न, तत्रैव पश्चादनुप्रवेशा , छिन्ने हस्तादौ कम्पादितल्लिङ्गादर्शनादित्यं कल्पनात् । न चैकत्व आत्मनो विभागाभावाच्छेदाभाव इति वाच्यम् । शरीरद्वारेण तेस्यापि सविभागत्वात् , अन्यथा सावयवशरीरव्यापिता तेस्य न स्यात् , तथाच तच्छेदनान्तरीयकश्च्छेदो न स्यात् । छिन्ना ऽच्छिन्नयोः कथं पश्चात् संघटनम् ?, इति चेत् । न, एकान्तेनाच्छिन्नत्वात् , पद्मनालतन्तुवच्छेदेऽपि च्छेदाभ्युपगमात् ?; संघटनमपि तथाभूताहटवशादविरुद्धमेव । हन्त ! एवं शरीरदाहेऽप्यात्मदाहः स्यादिति चेत् । न, क्षीर-नीरयोरिवाऽभिन्नत्वेऽपि भिन्नलक्षणत्वेन तद्दोषाभावादिति, अन्यत्र विस्तरः।
___ तस्माद् देहादात्मन एकान्तपृथक्त्वे हिंसाद्यभावः, तदभावे- हिंसाद्यभावे, अनिमित्तत्वात्- निमित्तसंनिधानाभावात् ,
सा- ब्रह्महत्या । २ ग. घ. च. 'शरीरि'। ३ यस्माच्छरीरावयवः पृथग्भूतस्तस्मिन् शरीरे । छिनामावयवानामिति गम्यते। ५ तस्य- आत्मनः।
॥११॥
Jan Education International
For Private
Personel Use Only