SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ नच- नवा, सः- प्रतिबिम्बोदयस्वभावः, पूर्वस्वभावत्वात्- संसार्यवस्थैकस्वभावत्वात् , मुक्तानामर्सगतः, किन्तु संगत एव, अन्यथा नित्यत्वक्षतेः, एवमपि कदाचन न भोगः, किन्तु सर्वदैव स्यात्, इति योजना । स्वभावान्तरभावे च- अमुक्तस्वभावपरित्यागेन मुक्तस्वभावोत्पादे च मुक्तानामिष्यमाणे, अनिवारितः परिणामः, स्वभावान्यथात्वस्यैव तल्लक्षणत्वात् । घटनाशे घटावच्छिन्नस्याकाशस्य घटानवच्छिन्नत्वेऽपि स्वभावाऽपरित्यागवत् सवासनबुद्धिनाशे विषयावच्छिन्नस्य चैतन्यस्य विषयानवच्छिन्नत्वेऽपि स्वभावाऽपरित्याग एवेति चेत् । अहो ! असिद्धमसिद्धेन साधयति भवान् , घटनाशेऽप्याकाशस्य घटावच्छिनत्वस्वभावापरित्यागे घटाकाशव्यवहारप्रसङ्गात् । किञ्च, सा बुद्धिस्तमेवात्मानं विषयेणावच्छिन्नत्ति, इत्यत्र न किमपि नियामकं पश्यामः । तस्माद् बुद्धिरेव रागादिपरिणताऽऽत्मस्थानेऽभिषिच्यताम् । तस्या लयश्च रागादिलय एव, इति तत्रैव मुक्तिरिति । युक्तम् ॥३१॥ देहात् पृथक्त्व आत्मनो दोषान्तरमाहदेहात्पृथक्त्व एवास्य नच हिंसादयः क्वचित्। तदभावेऽनिमित्तत्वात्कथं बन्धः शुभाशुभः ॥ देहात् पृथक्त्व एव- एकान्ततो देहपृथक्त्वे, अस्य- आत्मनः, स्वीक्रियमाणे, न च हिंसादयः कचिद् भवेयुः। न हि ब्राह्मणशरीरहत्यैव ब्रह्महत्या, मृतब्राह्मणशरीरदाहेऽपि तत्पसङ्गात् । न च मरणोद्देशाभावादयमदोषः, तदुद्देशेनापि तत्पसङ्गात् , १ तच्छन्दः परिणामपरामर्शकः । २ ब्रह्महत्यायाः प्रसङ्गात् , ब्राह्मणशरीरनाशस्य तत्राप्यविशेषादित्यर्थः । ३ मरणोद्देशेनाऽपि । ४ अदोषप्रसङ्गात् । Jain Education in For Private & Personel Use Only Oneliwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy