SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ शासवान समुच्चयः । सटीकः। स्तबकः। ॥३॥ वक्तुम् , अमूर्तानां रूप-परिमाणादीनां प्रतिबिम्बदर्शनात् , द्रव्यस्याऽप्यमूर्तस्य साभ्र-नक्षत्रस्याकाशादेर्जानुमात्रे जले दर-विशालखरूपेण प्रतिबिम्बदर्शनाच' इत्युक्तावपि न निस्तारः। अथ न पुरुषजन्यः पुरुषोपरागः, किन्तु पुरुषभेदाग्रहादसत एव तस्योत्पत्तिः, सदुपरागेण भानाच्च नाऽसत्ख्यातिरिति चेत् । गतं तर्हि सत्कार्यवादेन । बुद्धौ सन्नेव पुरुषोपरागः कदाचिदाविर्भवतीति चेत् । तर्हि बुद्धयुत्पत्तेः पूर्व पुरुषस्यानुपरक्ततया मोक्षः स्यात् , प्रकृतेः साधारणत्वेनाऽनुपरञ्जकत्वात् । पूर्वबुद्धिवासनानुवृत्तेः साधारण्येऽप्यसाधारणी प्रकृतिरिति चेत् । न, 'बुद्धिनिवृत्तावपि तद्धर्मवासनानुवृत्तिः' इत्यपदर्शनम् । सौम्याद् न दोष इति चेत् । मुक्तावपि तत्प्रसङ्गः । निरधिकारित्वाद् नैवमिति चेत् । तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्य-हङ्कार-मन:-शब्दानामर्थान्तरकल्पनया; 'सैव हि तत्तद्यापारयोगात् तेन तेन शब्देन व्यपदिश्यते, शरीरवायुवत् , इत्यागमस्यापि न विरोध इति । स्वीक्रियता वा यथा कथश्चित् तस्यातात्विको भोगः, तथाप्यन्यदृषणमित्याह- मुक्तेरतिप्रसङ्गाच- तेषां प्रतिबिम्बाभावात् संसारिणामपि मुक्तकस्वभावत्वात् , बै- निश्चितम् , कदाचन- कदाचिदपि, भोगो न स्यात् ।। ३०॥ अथ यदि संसारिणां प्रतिबिम्बोदयस्वभावः, तदाहनच पूर्वस्वभावत्वात्स मुक्तानामसंगतः। स्वभावान्तरभावे च परिणामोऽनिवारितः॥३१॥ १ सैव- बुद्धिरेव । ॥११०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy