SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Jain Education In प्रतिविम्वम्' इति प्रतीतेः कथमप्युपपादयितुमशक्यत्वात् मुखभ्रमाधिष्ठानत्वरूपमुखप्रतिविम्वत्वस्य प्रागेवाऽग्रहात्, 'आदर्श मुखप्रतिविम्बम्' इत्याधाराऽऽधेयभावाध्यवसायानुपपत्तेश्च । एतेन 'मुखे विम्बत्वमिवाऽऽदर्श एव प्रतिविम्वत्वं मुखसांनिध्यदोपाभावादिसामग्रयाऽभिव्यज्यते' इति निरस्तम्, बिम्बोत्कर्षेण प्रतिविम्वोत्कर्षानुपपत्तेः प्रतिविम्वत्वाग्राहकसामग्रथा एवादर्श - भ्रमहेतुत्वेन 'अयं नाऽदर्शः, किन्तु मुखप्रतिविम्बम्' इति सार्वजनीनानुभवानुपपत्तेश्च । न च प्रतिविम्बस्य द्रव्यत्वे सावधिकत्वानुपपत्तिः, प्रतिविम्वधर्मस्यैव महत्त्ववत् सावधिकत्वात् । न चाश्रयनाशे तन्नाशानुपपत्तिः, विम्बसंनिधाननिमित्तजनितस्य तस्य तन्नाशेनैव नाशसंभवात् । न चैवमनन्तप्रतिविम्बोत्पत्तिनाशादिकल्पने गौरवम्, सादृश्यातिरिक्तानन्तदोषादिकल्पने तत्रैव गौरवात्, अनुभवापलापाच्चेति । अधिकमाकरे । स्फटिकादौ लौहित्यादिकमपि पद्मरागादिमूर्तसंनिधिजन्य एव परिणामविशेषः, साक्षात्संबन्धेन तत्प्रतीतौ परम्परासंबन्धस्याऽतिप्रसक्तत्वात् । स्फटिकादिनिष्ठतया लोहिताश्रय संसर्गस्य साक्षात्संबन्धेन लौहित्यभ्रमजनकत्वे तत्र विशेषदर्शनादेरुत्तेजकत्वे, परम्परासंबन्धेन लौहित्यप्रमानियामकत्वादिकल्पने चातिगौरवात्, लौहित्यमात्रजनकत्वकल्पनाया एवं न्याय्यत्वात् अभिभूताऽनभिभूतरूपयोः समावेशस्याऽनुभवसिद्धत्वेनाऽविरुत्वात्, नियतारम्भनिरासाच्चेति, अन्यत्र विस्तरः । तस्मादात्मनो बुद्धौ विम्वतया, उपाधितया वाऽमूर्तत्वाद् न स्वोपरागजनकत्वम् । तस्वे वा कथमात्मनोऽकारणत्वम् १ । कथं वा तदुपरागस्याऽनिर्वचनीयस्य असतो वा स्वीकारे नौपनिषदबौद्धमतप्रवेशः १ । एतेन 'नामूर्तस्य प्रतिविम्वाभावः शक्यो १ सांख्यस्य । २ क. 'स्वे त्वन' । ३ तरवतो बौद्धपक्षकक्षीकार इत्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy