________________
शास्त्रवार्ता - समुच्चयः । ॥१०९॥
Jain Education Inte
ततः किम् ?, इत्याह
विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि। २९ ।
विभक्ता - आत्मभिन्ना, ईदृक्परिणतिः - अभिहितपुरुषोपरागपरिणामा च इति कर्मधारयः, तस्यां बुद्धौ - अन्तःकरणलक्षणायाम्, अस्य- आत्मनः, भोगः कथ्यते, आसुरिप्रभृतिभिः । किंवत् १, इत्याह- यथा चन्द्रमसः - वास्तवस्य चन्द्रस्य, प्रतिबिम्बोदय :- प्रतिविम्बपरिणामः, स्वच्छे- निर्मले, अम्भसि - जले ।। २९ ।।
तदिदमखिलमपाकुर्वन्नाह -
प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते । मुक्तेरतिप्रसङ्गाच्च न वै भोगः कदाचन ॥ ३०॥ प्रतिविम्वोदयोsपि अस्य - अमूर्तत्वेन न युज्यते, छायावन्मूर्तद्रव्येणैव हि प्रतिविम्वाख्यं स्वाकारं भास्वरद्रव्योपादानं द्रव्यमारभ्यते; तथा चार्षम् -
“सामा उदिया छाया अभासुरगया णिसिं तु कालाभा । स चेह भासुरगया सदेहवण्णा मुणेयव्या ॥ १ ॥ " इति । युक्तं चैतत्, अन्यथेदंत्वावच्छेदेन मुखभेदग्रहाभावात्, 'इदं मुखम्' इति प्रतीतेः कथञ्चिदुपपादनेऽपि 'इदं मुख१ 'विविक्त' इत्यन्यत्र ग्रन्थे पाठः । २ श्यामोदिता छायाsभास्वरगता निशि कालाभा । सा चेह भास्वरगता स्वदेहवर्णा ज्ञातव्या ॥ १ ॥
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ ३ ॥
॥१०९॥
www.jainelibrary.org