SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ देहेन भीगो देहभोगस्तेन, 'धान्येन धनम्' इतिवदभेदे तृतीया, देहभोगेन देहद्वारेति वार्थः नैव, अस्य- आत्मनः, भावतः- तत्वतः, इष्यते भोगःः किन्तु प्रतिविम्वोदयात् । यद्यप्येवमपि सुख-दुःखाद्यन्तःकरणधर्मानुविद्धस्य महत एव स्वतोऽचेतनस्य चेतनोपरागेण 'चेतनोऽहं सुखी' इत्याद्यभिमानरूपञ्चैतन्य शेतात्रिको भोगः, न तु पुरुषस्य; तथापि भोक्तृबुद्धिसंनिधानात् तत्र भोक्तृत्वव्यवहारः; तदाह पतञ्जलिः- “शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्मापि तदात्मक इव प्रतिभासते” इति । केचित्तु बुद्धौ पुरुषोपरागवत् पुरुषेऽपि बुद्ध्युपरागं वर्णयन्ति । न चैवं विकृतत्वापत्तिः अतात्त्विको परागेण तदयोगात् । तथा चाह वादमहार्णवः - 'बुद्धिदर्पणसंक्रान्तमर्थप्रतिविम्वकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति, तदेव भोक्तृत्वमस्य, न तु विकारोपपत्ति:' इति । 'बुद्धिगतप्रतिविम्वात्मन्येव बुद्धिगतभोगोपसंक्रमः, विम्बात्मनि तु न किञ्चित् ' इत्यपरे । स्वोक्तेऽर्थेऽभियुक्तसंमतिमाह यथोक्तं पूर्वमूरिभिः- विन्ध्यवास्यादिभिः ॥ २७ ॥ किमुक्तम् १, इत्याह पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सांनिध्यादुपाधिः स्फटिकं यथा ॥ २८॥ पुरुषः- आत्मा, अविकृत्मात्मैव - अप्रच्युतस्वभाव एव, अचेतनं मनः, सांनिध्यात्- सामीप्याद् हेतोः, स्वनिर्भासंस्वोपरक्तम्, करोति । निदर्शनमाह यथोपाधिः पद्मरागादिः स्फटिकं स्वधर्मसंक्रमेण खोपरक्तं करोति । न चैतावता स विकरोति, किन्तु स्फटिक एव विक्रीयते; तथाऽऽत्मापि बुद्ध्युपरागं जनयन् न विकरोति, किन्तु बुद्धिरेव विक्रीयत इति भावः ||२८|| Jain Education Intional For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy