________________
सटीकः । स्तबका। । ॥३॥
शास्त्रवातों- अतस्तत् पृथिव्यादिपरिणामैकहेतुकं न भवति, नियतान्वय-व्यतिरेको विना तादृशपरिणामेऽपि हेतुताग्रहाभावात् , तयोश्च
कुलालादावविशेषात् । कार्यगतयावद्धर्मानुविधायित्वाद् हेतोः कुलालादीनां न घटादिहेतुत्वमिति चेत् । तर्हि बुद्धिगता रागा॥१०८॥ दयोऽपि प्रकृतौ स्वीकर्तव्याः, इति 'सैव बुद्धिः, भावाष्टकसंपन्नत्वात् , न तु प्रकृतिः । स्थूलरूपतामपहाय मूक्ष्मरूपतया ते तत्र
सन्तीति चेत् । लयाद्यवस्थायां सौम्यं बुद्धावपि समानम् ,सूक्ष्मतया घटादिगतधर्माणां कुलालादौ कल्पने बाधकाभावश्च ।।२५॥
चेतनेऽचेतनधर्मसंक्रमे परिणामित्वादिबाधकम् , कुलालादिदेहस्तु घटादिकर्तेष्यत एवेत्याशङ्कयाहतित्रापि देहकर्ता चेन्नैवासावात्मनः पृथक् । पृथगेवेति चेद्भोग आत्मनो युज्यते कथम् ?॥२६॥
तत्रापि- घटादावपि, देहः कर्ता, स्थूलरूपावच्छिन्नस्य तस्य कुलालादिचेष्टयैवोत्पादात , इति चेत् । नैव, असौदेहः, आत्मनः पृथग्-भिन्नः, सर्वगतत्वात् निष्क्रियत्वाञ्च । आत्माऽसर्वगत-सक्रियदेहात् पृथगेवेति चेत् । तर्हि आत्मनो भोगः कथं युज्यते, सर्वथा देहाद् भेदे तस्य मुक्तकल्पत्वात् , क्षीर-नीरन्यायेन देहाभिन्नस्यैवाऽऽत्मनो देहोपनीतभोगसंभवादिति भावः ॥ २६ ॥
नास्त्येव तत्त्वत आत्मनो भोग इतीष्टापत्त्या परः स्वाभिप्रायमाहदेहभोगेन नैवास्य भावतो भोग इष्यते । प्रतिबिम्बोदयात्किन्तु यथोक्तं पूर्वसूरिभिः॥२७॥
१ सैव- प्रकृतिः।
फरवडसारभर
॥१०८॥
Jain Educati
on
For Private & Personel Use Only
www.jainelibrary.org