SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ कदाचिजननस्वभावत्वम् , कुतः?- एकरूपा हि प्रकृतिः सदैव महदादि जनयेत् , कदापि वा न जनयेत् । तत्तकालावच्छिभजनना-ऽजननोभयानरूपितकस्वभावत्वादयमदोष इति चेत् । जनना-ऽजननयोस्तत्कालावच्छिन्नत्वे तत्स्वभावत्वम्, तत्स्वभावत्वे च तयोस्तत्वमित्यन्योन्याश्रयः । स्वस्वभावादेव तयोस्तत्त्वे च विलीनं प्रकृत्यादिप्रक्रिययेति भावः ॥ २३॥ उपचयमाहनानुपादानमन्यस्य भावेऽन्यज्जातुचिद्भवेत् । तदुपादानतायां च न तस्यैकान्तनित्यता॥२४॥ अनुपादानं- तथाभाविकारणविकलम् , अन्यस्य- सर्वथा तथाभाविव्यतिरिक्तस्य प्रधानस्य, भावे- संनिधाने, अन्यत्- एकान्ताऽविद्यमानं महदादि, जातुचित्- कदाचित् , न भवेत् , सर्वथाऽसतः सत्ताऽयोगात , तदुपादानतायां च महदादेरभ्युपगम्यमानायां, न तस्य- प्रधानस्य, एकान्तनित्यता, अनित्यमहदायभिन्नत्वात् । महदायपि सदासत्वाद् नित्य- मेवेति चेत् । गता तर्हि प्रकृति-विकृत्यादिप्रक्रिया, मुक्तावपि तत्सत्त्वेऽपदर्शनं च । महादादेः प्रकृतिपरिणामित्वेन प्रकृत्यभिन्नत्वेऽप्यनित्यत्वादिना भेद एवेति चेत् । तर्हि भेदा-ऽभेदप्रसङ्ग इति दिग् ॥ २४ ॥ स्थूलकार्यमधिकृत्याऽप्याहघटाद्यपि कुलालादिसापेक्षं दृश्यते भवत्। अतो न तत्पृथिव्यादिपरिणामैकहेतुकम् ॥२५॥ घटाद्यपि- स्थूलकार्यजातम् , कुलालादिसापेक्षं भवद् दृश्यते, कुलालादीनां तत्राऽन्वय-व्यतिरेकानुविधानदर्शनात् । For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy