________________
शास्त्रवाता
कुतः१, इत्याह
सटीकः। समुच्चयः। युक्त्या तु बाध्यतेयस्मात्प्रधानं नित्यमिष्यते।तथात्वाप्रच्युतौ चास्यमहदादि कथं भवेत्?२२३॥ ॥१०७॥
____ युक्त्या तु बाध्यते, यस्मात् प्रधान, नित्यम् - अप्रच्युता-ऽनुत्पन्न स्थिरैकस्वभावम्, इष्यते- सांख्यैरङ्गीक्रियते । अस्य- प्रधानस्य, तथात्वापच्युतौ च-प्रधानत्वापच्युतौ च, महदादि कथं भवेत् ?- पूर्वस्वभावपरित्यागा-ऽपूर्वस्वभावोपादानाभ्यामेव हेतु-हेतुमद्भावनियमात् , अङ्गदादिपरिणामनाशेनैव कुण्डलादिपरिणामोत्पाददर्शनादिति भावः ॥२२॥
अथ नाऽस्माभिरपूर्वस्वभावोत्पत्त्या हेतु हेतुमद्भावोऽभ्युपगम्यते, यतो रूपभेदादनित्यता प्रसज्येत; किन्त्वपरित्यक्तसर्पभावस्य सर्पस्य कुण्डलावस्थावदपरित्यक्तप्रधानभावस्यैव प्रधानस्य महदादिपरिणामाभ्युपगम इति को दोषः, युवत्व-वृद्धत्वादिपरिणामयोरप्यवस्थित एव धर्मिणि पूर्वोत्तरभावनियमेनाऽवस्थासांकर्यात् , इत्यभिप्रायमुट्टय निराकुरुतेतस्यैव तत्स्वभावत्वादिति चेत्किं न सर्वदा। अत एवेति चेत्तस्य तथात्वेननु तत्कुतः॥२३॥18
तस्यैव- प्रधानस्यैव, एवकारेण स्वभावान्तरव्यवच्छेदः, तत्स्वभावत्वात्- महदादिजननस्वभावत्वात् , तथात्वाऽमच्युतावपि महदाद्युत्पत्तिरित्युपस्कारः, इति चेत् । तदा सर्वदा किं न भवति महदादिकम् ?, प्रकृतिसंनिधानस्य सर्वदा सत्त्वादेकहेलयेव जगत् स्यात, समथेस्य कालक्षपाऽयोगादित्याशयः। परः पाह- अत एव- कदाचिजननस्वभावत्वादेव, न
॥१०७॥ सर्वदोत्पत्तिरित्याशयः । वाद्याह- इति चेत् , 'ननु' इत्याक्षेपे, तस्य- प्रधानस्य, तथात्वे- नियतस्वरूपाविकृतत्वे, तत्
।
Jain Education Intl
For Private & Personel Use Only
Delww.jainelibrary.org