SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ BKOSROICORICOOOOK इत्युत्तरत्राप्यनुपज्यते । 'ततोऽपि' इत्युत्तरत्राऽऽवय॑ते, ततोऽपि- अहङ्कारादपि, अक्ष-तन्मात्रवर्गस्य-एकादशेन्द्रिय-पञ्चमहाभूतानां भावः तन्मात्रात्- जात्यपेक्षयैकवचनात् पञ्चभ्यस्तन्मात्रेभ्यः, भूतसंहतिः- पञ्चमहाभूतानां भावः ॥ १९ ॥ स्थूलकार्यमधिकृत्याहघटाद्यपि पृथिव्यादिपरिणामसमुद्भवम्।नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते॥२०॥ घटाद्यपि- स्थूलकार्यजातम् , पृथिव्यादीनां मृदात्मिकानां परिणामाद् विलक्षणसंयोगादिपरिणामात् समुद्भव उत्पत्तिर्यस्य तत् , परिणामादेव परिणामान्तराभ्युपगमात् । विशेषमाह- तेषां- सांख्यानाम् , लोकेऽपि- जगत्यपि, आत्मव्यापारज किश्चित् किमपि कार्य नास्ति, आत्मव्यापारस्यैवाऽभावात् सुतरां तज्जन्यत्वाभावः । इति सांख्याशयवार्ता ॥२०॥ अत्र प्रतिक्षेपवार्तामाहअन्येतु ब्रुवते ह्येतत्प्रक्रियामात्रवर्णनम्। अविचार्यैव तद्युक्त्या, श्रद्धया गम्यते परम् ॥२१॥ . अन्ये तु- असत्कार्यवादिनः, ब्रुवते-हि-यतः, एतत्- अनुपदमभिहितम्, प्रक्रियामात्रवर्णनम्- यदृच्छाक्लुप्तपरिभाEषामात्रोपदर्शनम् , न तात्त्विकमेवः तत्- तस्माद् हेतोः, युक्त्या विचार्यैव, परं केवलम् , श्रद्धया-वृद्धोक्तभक्त्या, गम्यतेउपादीयते ॥२१॥ ३ सर्वत्र पुस्तकादशेष्वेवमेव पाठेऽपि पूर्वग्रन्थानुरोधेन 'तन्मात्र' इति कारिकापदानुरोधेन च तन्मात्राणां' इति पाठो युक्तः प्रतिभाति । Jain Education anal For Private & Personal Use Only Adwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy