________________
शास्त्रवार्तासमुच्चयः ॥१०६॥
सटीकः । स्तबकः। ॥३॥
ततः पञ्च तन्मात्राणि, एकादशेन्द्रियाणि च । पञ्च तन्मात्राणि- शब्द-रूप-रस-गन्ध-स्पर्शाः मूक्ष्मा उदात्तादिविशेष- रहिताः । एकादशेन्द्रियाणि च-चक्षुः, श्रोत्रम् , घ्राणम् , रसनम् , त्वगिति पश्च बुद्धीन्द्रियाणि, वाक्-पाणि-पाद-पायू-पस्थाः पश्च कर्मेन्द्रियाणि, मनश्चेति । पञ्चतन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते, तथाहि- शब्दतन्मात्रादाकाशं शब्दगुणम् , शब्दतन्मावसहितात् स्पर्शतन्मात्रा वायुः शब्द-स्पर्शगुणः, शब्द-स्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्द-स्पर्श-रूपगुणम् , शब्दस्पर्श-रूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्द-स्पर्श-रूप-रसगुणाः, शब्द-स्पर्श-रूप-रसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्श-रूप-रस-गन्धगुणा पृथिवीति । तदुक्तमीश्वरकृष्णेन
"प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥१॥
मूलमकृतिरविकृतिर्महदाद्याः प्रकृति-विकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः ॥२॥" इति । पूर्व पोडशकपदेन पञ्चतन्मात्रै-कादशेन्द्रियग्रहणम् , अग्रे तु पञ्चमहाभूते-न्द्रियग्रहणमिति विशेषः ॥१८॥ . इममेव क्रममाहप्रधानान्महतो भावोऽहंकारस्य ततोऽपि च। अक्षतन्मात्रवर्गस्य तन्मात्राभूतसंहतेः॥१९॥
प्रधानात्-प्रकृतितत्वात् , महतः- बुद्धितत्त्वस्य, भावः- उत्पत्तिः, अभिव्यक्तिर्वा, ततोऽपि च, अहङ्कारस्य 'भावः' । । सांख्यकारिकायां कारिका २२ । २ सांख्यकारिकायां कारिका ।।
१०६॥
JainEducatim
For Private Personal Use Only
www.jane brary.org