________________
त्यधीनं तत् , तस्या अपि नित्यतया तद्दोषानुद्धारात् । नापि घटादिरेवाऽऽहत्य चैतन्यावच्छिन्नः, दृष्टा-ऽदृष्टतत्त्वानुपपत्तेः । न चेन्द्रियमात्रापेक्षो घटादिचैतन्यावच्छेदः, व्यासङ्गानुपपत्तेः । अतो यत्संबद्धेन्द्रियस्य विषयचैतन्यावच्छेदनियामकत्वम् , यद्यापाराच्च सुषुप्ताविन्द्रियादिव्यापारविरतावपि श्वास-प्रश्वासादि, तद् महत्तत्वम् । तस्य धर्मा ज्ञाना-ज्ञान-श्वर्या-ऽनैश्चर्य-वैराग्याऽवैराग्य-धर्मा-ऽधर्मारूपा अष्टौ, बुद्धि-सुख-दुःखे-च्छा-द्वेष-प्रयत्ना अपि, भावनायास्तरनङ्गीकारात्, अनुभवस्यैव स्मृतिपर्यन्तं मूक्ष्मरूपतयाऽवस्थानात् । तस्य ज्ञानरूपपरिणामेन संबद्धो विषयः, पुरुषस्य स्वरूपतिरोधायकः । एवं च बुद्धितत्त्वनाशादेव पुंसो विषयावच्छेदाभावाद् मोक्षः । भेदाग्रहाच्च 'चेतनोऽहं करोमि' इत्यध्यवसायः, अचेतनप्रकृतिकार्याया बुद्धेश्चैतन्याभिमानानुपपत्त्यैव स्वाभाविकचैतन्यरूपस्य पुंसः सिद्धेः । आलोचनं व्यापार इन्द्रियाणाम् , विकल्पस्तु मानसः, अभिमानोऽहङ्कारस्य कृत्यध्यवसाये बुद्धः । सा हि बुद्धिरंशत्रयवती, पुरुषोपरागः, विषयोपरागः, व्यापारावेशश्च, इत्यंशाः । भवति हि 'ममेदं कर्तव्यम्' इति बुद्धरध्यवसायः । तत्र 'मम' इति पुरुषोपरागः, दर्पणस्येव मुखोपरागः, भेदाग्रहादतात्विकः । 'इदम्' इति विषयोपरागः, इन्द्रियप्रणालिकया परिणतिभेदो दर्पणस्येव मुखनिश्वासहतस्य मलिनिमोपरागस्ताविकः । तदुभयोपपत्तौ व्यापारावेशोऽपि । तत्र विषयोपरागलक्षणज्ञाने पुरुषोपरागस्याऽतात्विकसंबन्धो दर्पणप्रतिविम्बितस्येव मुखस्य तन्मलिनिम्नेति । ततो महत्तत्त्वादहङ्कारोत्पत्तिः । भवति हि स्वप्नावस्थायां 'व्याघ्रोऽहम् , वराहोऽहम्' इत्यभिमानः, न तु 'नरोऽहम्' इत्यभिमानः । अस्ति च तत्र नरत्वं संनिहितमिन्द्रिय-मनःसंवन्धश्च । अतो नियतविषयाभिमानव्यापारकाऽहङ्कारसिद्धिः।
१ ख. ग, घ. च. 'श्वासा'।
PANIPPINA
Jain Education Inter
For Private Personal Use Only
w.jainelibrary.org