________________
शास्त्रवार्तासमुच्चयः । ॥१०५॥
सटीकः स्तवकः ॥३॥
असतः शशविषाणादेः सत्त्वस्य कर्तुमशक्यत्वात् , सत एव हि सत्कारणम् , तद्धर्मत्वात् , दृष्टं च तिलेषु सत एव तैलस्य निष्पीडनेन करणम् , असतस्तु करणे न निदर्शनम् । न च विद्यमानपागभावप्रतियोगित्वरूपस्याऽसत्त्वस्य, विद्यमानत्वरूपस्य च सत्त्वस्य न विरोध इति सांप्रतम् , लाघवादविद्यमानत्वस्यैवाऽसत्त्वरूपत्वात् , तेनैव सर्वत्राऽनुगताऽसत्त्व्य वहारात् । तथा, उपादानग्रहणादपि सत् कार्यम् , अन्यथा शालिफलार्थिनः शालिबीजस्यैवोपादानम् , न कोद्रवबीजादेरिति प्रतिनियमानुपपत्तेः, फलायोगस्योभयत्राविशेषात् । 'उपादानेन ग्रहणं संबन्धस्ततोऽसतः संबन्धाभावात्' इत्यन्ये । तथा, सर्वसंभवाऽभावात् सत् कार्यम् , असतः करणेऽसंबद्धाविशेषे सर्व सर्वस्माद् भवेत् , न चैवम् , तस्मात् कार्य प्रागुत्पत्तेः कारणेन सह संबद्धम् । यथाहु:
"असत्त्वाद् नास्ति संबन्धः कारणैः सत्वसङ्गिभिः । असंबद्धेषु चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥१॥” इति ।।
तथा, अशक्तस्य जनकत्वेऽतिप्रसङ्गाच्छक्तस्य जनकत्वं वाच्यम् , शक्तिश्चास्य न सर्वत्र, तथैवाऽतिप्रसङ्गात् , किन्तु क्वचिदेव, इति कथमसति कार्ये कारणस्य शक्तिर्नियता स्यात् , असतो विषयत्वायोगात् ? । तस्मात् कारणात् प्रागपि शक्यं सदेव । तथा, कारणभावात्- कारणतादात्म्यादपि सत् कार्य, नाऽवयवी अवयवेभ्यो भिद्यते, तथाप्रतीत्यभावात : 'कपालं घटीभूतम् , तन्तुः पटीभूतः, स्वर्ण कुण्डलीभूतम्' इत्यादिप्रतीतेः । तस्माद् महदादिकार्यस्योत्पत्तः प्रागपि यत्र सत्त्वं सा प्रकृतिः । ततो बुद्धयपरनामकं महत्तत्त्वमुत्पद्यते, न हि चैतन्यस्य स्वभावतो विषयावच्छिन्नत्वम् , अनिर्मोक्षापत्तेः । नापि प्रक
१ ख. ग. प. च. 'पस'।
Food
॥१०५॥
Jain Education 1
For Private
Personal Use Only
FDdwww.jaineligrary.org