SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥१०५॥ सटीकः स्तवकः ॥३॥ असतः शशविषाणादेः सत्त्वस्य कर्तुमशक्यत्वात् , सत एव हि सत्कारणम् , तद्धर्मत्वात् , दृष्टं च तिलेषु सत एव तैलस्य निष्पीडनेन करणम् , असतस्तु करणे न निदर्शनम् । न च विद्यमानपागभावप्रतियोगित्वरूपस्याऽसत्त्वस्य, विद्यमानत्वरूपस्य च सत्त्वस्य न विरोध इति सांप्रतम् , लाघवादविद्यमानत्वस्यैवाऽसत्त्वरूपत्वात् , तेनैव सर्वत्राऽनुगताऽसत्त्व्य वहारात् । तथा, उपादानग्रहणादपि सत् कार्यम् , अन्यथा शालिफलार्थिनः शालिबीजस्यैवोपादानम् , न कोद्रवबीजादेरिति प्रतिनियमानुपपत्तेः, फलायोगस्योभयत्राविशेषात् । 'उपादानेन ग्रहणं संबन्धस्ततोऽसतः संबन्धाभावात्' इत्यन्ये । तथा, सर्वसंभवाऽभावात् सत् कार्यम् , असतः करणेऽसंबद्धाविशेषे सर्व सर्वस्माद् भवेत् , न चैवम् , तस्मात् कार्य प्रागुत्पत्तेः कारणेन सह संबद्धम् । यथाहु: "असत्त्वाद् नास्ति संबन्धः कारणैः सत्वसङ्गिभिः । असंबद्धेषु चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥१॥” इति ।। तथा, अशक्तस्य जनकत्वेऽतिप्रसङ्गाच्छक्तस्य जनकत्वं वाच्यम् , शक्तिश्चास्य न सर्वत्र, तथैवाऽतिप्रसङ्गात् , किन्तु क्वचिदेव, इति कथमसति कार्ये कारणस्य शक्तिर्नियता स्यात् , असतो विषयत्वायोगात् ? । तस्मात् कारणात् प्रागपि शक्यं सदेव । तथा, कारणभावात्- कारणतादात्म्यादपि सत् कार्य, नाऽवयवी अवयवेभ्यो भिद्यते, तथाप्रतीत्यभावात : 'कपालं घटीभूतम् , तन्तुः पटीभूतः, स्वर्ण कुण्डलीभूतम्' इत्यादिप्रतीतेः । तस्माद् महदादिकार्यस्योत्पत्तः प्रागपि यत्र सत्त्वं सा प्रकृतिः । ततो बुद्धयपरनामकं महत्तत्त्वमुत्पद्यते, न हि चैतन्यस्य स्वभावतो विषयावच्छिन्नत्वम् , अनिर्मोक्षापत्तेः । नापि प्रक १ ख. ग. प. च. 'पस'। Food ॥१०५॥ Jain Education 1 For Private Personal Use Only FDdwww.jaineligrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy