________________
वार्तान्तरमाहप्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि । महदादिक्रमेणेह कार्यजातं विपश्चितः॥१८॥
___ अन्ये तु विपश्चितः-सांख्याः , इह-सामग्रीविचारे, सर्वमेव हि कार्यजातं महदादिक्रमेण प्रधानोद्भवं मन्यन्ते । तथाहितेषां पञ्चविंशतिस्तत्वानि, तत्राऽकारणम् , अकार्य च कूटस्थनित्यचैतन्यरूप आत्मा। प्रकृतिरचेतना, महदाद्युत्पादकाशेषशक्तिप्रचिता, आदिकारणम् , परिणामिनी च । तदभावे हि परिमितं व्यक्तं न स्यात् , तथोत्पादकहेत्वभावात् । न च स्याद् भेदानामन्वयः, तन्मयकारणप्रभवत्वं विना तजातिमत्कार्यानुपलब्धेः । न च बुद्धिरेव कार्यधर्मानुविधायिनी, असाधारणत्वात् , अनित्यत्वाच्च । न च महदादिहेतुशक्तिप्रवृत्तिः स्यात् । न हि पटादिजननी शक्तिस्तन्तुवायादिकमाधारं विना प्रवर्तते । तथा, कारण-कार्यविभागोऽपि न स्यात् , महदादौ कार्यत्वव्यवहारस्य संबन्धिसापेक्षत्वात् । न च स्यात् क्षीरावस्थायां क्षीरं दन | इव प्रलये भूतादीनां तन्मात्रादिक्रमेणाऽविवेकरूपोऽविभाग इति प्रकृतिसिद्धिः तदुक्तम्
"भेदानां परिमाणात् समन्वयाच्छक्तिसंप्रवृत्तेश्च । कारण-कार्यविभागादविभागाद् वैश्वरूप्यस्य ।।१॥" इति । न चाऽसदेव महदादिकमुत्पद्यताम् , किं तत्समन्वयार्थ प्रकृत्यनुसरणेन ? इति वाच्यम् । असतोऽनुत्पत्तेः, तदुक्तम् -
"असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥१॥" १ क. 'कार्य कारणांव'। २ सांख्यकारिकायां कारिका १५। ३ सांख्यकारिकायां कारिका ९ ।
Jain Education Inter
For Private
Personel Use Only
Jainelibrary.org