________________
शास्त्रवार्ता॥१०४॥
सटीकः । स्तबकः।
॥३
॥
ततः- अविरुद्धभाषित्वात् , तेषां- परोपकारार्थं प्रवृत्तानां शास्त्रकाराणाम् , अभिप्रायः- शब्दतात्पर्यात्मा, सम्यग्- व्यासङ्गपरिहारेण, मृग्यः- उन्नयः, हितैपिणा- मुमुक्षुणा, न्यायशास्त्राविरोधेन- युक्त्या-ऽऽगमबाधा यथा न स्यात् तथा, न तु यथाश्रुतग्रहणमात्रेणाऽऽन्ध्ये मन्जनीयं मनः, अन्यथा 'ग्रावाणः प्लवन्ते' इत्यादिश्रुतिश्रवणेन गगनमेवाऽवलोकनीयं स्यात् । अत्र पराऽभियुक्तसंमतिमाह- यथा मनुरपि, अद:- वक्ष्यमाणम् , आह ॥ १६ ॥
किम् ?, इत्याहआर्ष च धर्मशास्त्रं च वेदशास्त्राविरोधिना । यस्तकेंणानुसंधत्ते स धर्म वेद नेतरः॥१७॥
आर्ष च-वेदादि, धर्मशास्त्रं च पुराणादि । 'आर्ष धर्मोपदेशं च' इति क्वचित् पाठः, तत्राऽप्ययमेवार्थः- आर्ष- मन्वादिवाक्यम्, धर्मजनक उपदेशो धर्मोपदेशः,'धर्मस्येश्वरस्य वोपदेशो धर्मोपदेशस्त-वेदम्' इत्यन्ये । वेदशास्त्राविरोधिना- परस्परं तदुभयाविरोधिना, तर्केण यः, अनुसंधत्ते-- तदर्थमनुस्मरति, स धर्म वेद-जानाति, नेतर:- ऊहरहितः । तस्मादीश्वरकर्तृत्वप्रतिपादकपरागमस्याऽप्ययमेवाऽऽशयो युक्तः, इति सम्यग्दृष्टिपरिगृहीतत्वेन तत्प्रामाण्यमुपपादनीयम् । द्रव्यासत्याभिधानं चेदं ग्रन्थकारस्य तत्पमाण्याभ्युपगन्तृश्रोतपरिवोधार्थम् , एवमग्रेऽप्यूहनीयम् ।
इत्येवं पटुरीश्वरव्यतिकरः सतर्कसंपर्कभाग येषां विस्मितमातनोति न मनस्ते नाम वामाशयाः। अस्माकं तु स एक एव शरणं देवाधिदेवः, सुखाम्भोधौ यस्य भवन्ति बिन्दव इव स्वःसनां संपदः॥१॥१७॥
PARERAR
॥१०४॥
Jain Education international
For Private Personal use only
www.jainelibrary.org