________________
एव "विश्वतश्चक्षुरुत विश्वतोमुखः०" इत्यादिका श्रुतिरप्युपपद्यते ; जीवस्य निश्चयतः सर्वज्ञत्वात् , अन्यथा रागाद्यावरणविलये तदाविर्भावानुपपत्तेः।
"उत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः॥१॥" इत्यादिकमप्युपपद्यते, आकृतस्वरूपादनाहतस्वरूपस्य भिन्नत्वात् । चैतन्यात्मकमहासामान्येन लोकत्रयावेशाद् ग्राह्याकारक्रोडीकृतत्वेन तद्भरणाच; इत्यादिरीत्या यथाऽऽगमं पराभिप्राय उपपादनीयः ।। १४ ।।
यतःशास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे। सत्त्वार्थसंप्रवृत्ताश्च कथं ते युक्तभाषिणः?।१५।
शास्त्रकाराः, प्रायः- लोकायतादीन् परलोकाऽभीरून् विहाय,महात्मानः- धर्माभिमुखाः, भवे- संसारे, वीतस्पृहाःलोकमानख्याति-धनलिप्सादिरहिताः, सत्त्वार्थसंप्रवृत्ताश्च- यथाबोधं परोपकारप्रवृत्ताश्च, अन्यथेशप्रवृत्त्ययोगात् । ततः कथं तेऽयुक्तभाषिणः- ज्ञात्वा विरुद्धभाषिणः ? । विरोधः खलु जल-ज्वलनयोरिव परोपकारित्व-विरुद्धभाषित्वयोरिति भावः ॥१५॥
ततः किम् ?, इत्याहअभिप्रायस्ततस्तेषां सम्यग् मृग्यो हितैषिणा।न्यायशास्त्राविरोधेन यथाह मनुरप्यदः॥१६॥
Jain Education Inteme
For Private & Personel Use Only
Naamjainelibrary.org