SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सटीकः । शास्त्रवार्ता- समुच्चयः। ॥१३॥ स्तबकः। सनाकत्वपरेण कर्तृत्वपदेन बोध्यमानम् , न दुष्यति “अङ्गुल्यग्रे करिशतम्" इत्यादिवद् यथा कथञ्चिदुपचारेण व्यवहारनिर्वा- हादिति भावः ॥ १२ ॥ , नवीदृशकल्पनायां को गुणः?, इत्यत्राहकर्तायमिति तद्वाक्ये यतः केषाञ्चिदादरः। अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना॥१३॥ अयम्- ईश्वरः, कर्ता, इति हेतोः, तद्वाक्ये- ईश्वरवाक्ये सिद्धान्ते, 'अयं कर्ता' इति तद्वाक्ये प्रसिद्धवाक्ये वा; यतः केपचित्- तथाविधभद्रकविनेयानाम् , आदरः स्वरसवाहिश्रद्धानात्मा, भवति। अतस्तदानुगुण्येन- तथाविधविनेयश्रद्धाभित्रदये, तस्य- परमात्मनः, कर्तृत्वदेशना- कर्तृत्वोपदेशः। श्रोतृभावाभिवृद्ध्यर्थो हि गुरोरुपदेशः, सा च कल्पितोदाहरणेनापि निर्वाह्यते, किं पुनरुपचारेण ? इति भावः ॥ १३ ।। . साक्षादपि कर्तृत्वं समर्थयतिपरमैश्वर्ययुक्तत्वान्मत आत्मैव वेश्वरः। स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥१४॥ - परमैश्वर्ययुक्तत्वात्- निश्चयतो घनाऽऽनृतस्यापि रवेः प्रकाशस्वभावत्ववत् कर्माऽऽवृतस्याऽप्यात्मनः शुद्ध बुदैकस्वभावत्वेनोत्कृष्टकेवलज्ञानाद्यतिशयशालित्वात् , आत्मैव-जीव एव वा, ईश्वरो मतः- ईश्वरपदेन संकेतितः । स च- जीवश्च, कर्तासाक्षात्कर्ता, इति देतोः, निर्दोषः- उपचारेणाऽप्यकलङ्कितः, कर्तृवादः- ईश्वरकर्तृत्वोपदेशः, व्यवस्थितः- प्रमाणसिद्धः। अत ॥१०३॥ Jain Education H ann For Private & Personal Use Only LVL anbrary 09
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy