SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सटीकः । शास्त्रवार्ता- समुच्चयः। ॥१३॥ स्तबकः। सनाकत्वपरेण कर्तृत्वपदेन बोध्यमानम् , न दुष्यति “अङ्गुल्यग्रे करिशतम्" इत्यादिवद् यथा कथञ्चिदुपचारेण व्यवहारनिर्वा- हादिति भावः ॥ १२ ॥ , नवीदृशकल्पनायां को गुणः?, इत्यत्राहकर्तायमिति तद्वाक्ये यतः केषाञ्चिदादरः। अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना॥१३॥ अयम्- ईश्वरः, कर्ता, इति हेतोः, तद्वाक्ये- ईश्वरवाक्ये सिद्धान्ते, 'अयं कर्ता' इति तद्वाक्ये प्रसिद्धवाक्ये वा; यतः केपचित्- तथाविधभद्रकविनेयानाम् , आदरः स्वरसवाहिश्रद्धानात्मा, भवति। अतस्तदानुगुण्येन- तथाविधविनेयश्रद्धाभित्रदये, तस्य- परमात्मनः, कर्तृत्वदेशना- कर्तृत्वोपदेशः। श्रोतृभावाभिवृद्ध्यर्थो हि गुरोरुपदेशः, सा च कल्पितोदाहरणेनापि निर्वाह्यते, किं पुनरुपचारेण ? इति भावः ॥ १३ ।। . साक्षादपि कर्तृत्वं समर्थयतिपरमैश्वर्ययुक्तत्वान्मत आत्मैव वेश्वरः। स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥१४॥ - परमैश्वर्ययुक्तत्वात्- निश्चयतो घनाऽऽनृतस्यापि रवेः प्रकाशस्वभावत्ववत् कर्माऽऽवृतस्याऽप्यात्मनः शुद्ध बुदैकस्वभावत्वेनोत्कृष्टकेवलज्ञानाद्यतिशयशालित्वात् , आत्मैव-जीव एव वा, ईश्वरो मतः- ईश्वरपदेन संकेतितः । स च- जीवश्च, कर्तासाक्षात्कर्ता, इति देतोः, निर्दोषः- उपचारेणाऽप्यकलङ्कितः, कर्तृवादः- ईश्वरकर्तृत्वोपदेशः, व्यवस्थितः- प्रमाणसिद्धः। अत ॥१०३॥ Jain Education H ann For Private & Personal Use Only LVL anbrary 09
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy