________________
ईश्वरः परमात्मैव- कायादेवहिरात्मनो ध्यातुभिन्नत्वेन ज्ञेयादन्तरात्मनश्च तदधिष्ठायकस्य ध्यातुध्येयकस्वभावत्वेन भिन्नोऽनन्तज्ञान-दर्शनसंपदुपेतो वीतराग एव । अन्ये तु- 'मिथ्यादर्शनादिभावपरिणतो बाह्यात्मा, सम्यग्दर्शनादिपरिणतस्त्वन्तरात्मा, केवलज्ञानादिपरिणतस्तु परमात्मा । तत्र व्यक्त्या बाह्यात्मा, शक्त्या परमात्मा, अन्तरात्मा च; व्यक्त्याऽन्तरात्मा । तु शत्या परमात्मा, भूतपूर्वनयेन च बाह्यात्मा; व्यक्त्या परमात्मा तु भूतपूर्वनयेनैव बाह्यात्मा, अन्तरात्मा च' इत्याहुः । | तदुक्तवतसेवनात्- परमाप्तप्रणीतागमविहितसंयमपालनात् । यतो मुक्तिः कर्मक्षयरूपा, भवति; ततस्तस्या गुणभावतः- राजादिवदप्रसादनियतप्रसादाभावेऽप्यचिन्त्यचिन्तामणिवद् वस्तुखभावबलात् फलदोपासनाकत्वेनोपचारात् , कर्ता स्यात् । अत एवं भगवन्तमुद्दिश्याऽऽरोग्यादिप्रार्थना । सार्थका-ऽनर्थकचिन्तायां तु भाज्यमेतत् , चतुर्थभाषारूपत्वात् , इति ग्रन्थकृतैव ललितविस्तरायामुक्तम् । अप्रार्थनीये कर्तरि प्रार्थनाया विधिपालनबलेन शुभाध्यवसायमात्रफलत्वादिति निगर्वः ॥११॥
अस्त्वेवं मुक्तिकर्तृत्वम् , भवकर्तृत्वं तु कथम् ?, अत आहतदनासेवनादेव यत्संसारोपि तत्त्वतः। तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥१२॥
___ तदनासेवनात्- तदुक्तव्रताऽपालनादेव, यत्- यस्मात् कारणात् , तत्त्वतः- परमार्थतः, संसारोऽपि जीवस्य भवति, अविरतिमूलत्वात् तस्येति भावः तेन हेतुना, तस्यापि-संसारस्थापि, कर्तृत्वं कल्प्यमानम्- खहेतुक्रियाविरुद्धविधिबोधितोपा
PRO WRPORATORS
Jain Education Inter
ww.jainelibrary.org
For Private & Personal Use Only
nal