SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ इति, शरीरस्य स्वोपात्तनामकर्महेतुत्वात् तद्वैचित्र्येण तेद्वैचित्र्यात्, अन्यथाऽङ्गोपाङ्गवर्णादिप्रतिनियमानुपपत्तेरिति, अन्यत्र विस्तरः । तस्माद् मायाविवत् समयग्राहकत्वम्, घटादि संप्रदाय प्रवर्तकत्वं च पराभिमतेश्वरस्य मायावितामेव विद्याधरविशेषस्य व्यञ्जयति । पितुरिव पित्रादेर्युगादौ युगादीशस्य जगतः शिक्षया तु तथात्वं युक्तिमत् स्वभावत एव तीर्थकृतां परोपकारित्वात् अत एव "कुलालेभ्यो नमः" इत्याद्या श्रुतिः संगच्छत इति युक्तं पश्यामः । अनुमानेऽपि सिद्धसाधनं बोध्यम् । प्रत्ययादिना तु वेदप्रामाण्यवादिनामाप्त तद्वक्तृसिद्धावपि नेश्वरसिद्धि:, इति किमिह तदुपन्यासेन । एतेन कार्यादिपदानामन्तरमपि प्रयासमात्रम् । 'जन्यतत्प्रमासामान्ये तत्प्रमात्वेन गुणतया हेतुत्वात्, आद्यप्रमाजनकप्रमाश्रयतयेश्वरसि द्धि:' इति तु मूढानां वचः, घटत्वादिमत्तिविशेष्यतया तत्र घटत्वादिविषयत्वेनैव हेतुतया, संस्कारेणैव घटत्वादिसंवन्धहेतुतयैव वा तैवापि निर्वाहात् ; अस्माकं तु सम्यग्दर्शनस्यैव गुणत्वात् । संख्याविशेषादपि नेश्वरसिद्धिः, तेवापि लौकिकापेक्षाबुद्धेरेव तद्धेतुत्वात् ममप्यपेक्षाबुद्धेरेव तथाव्यवहारनिमित्तत्वात् तज्जन्यातिरिक्तसंख्यासिद्धेः परिमाणेऽपि संघातभेदादिकृतद्रव्य परिणामविशेषरूपे संख्याया अहेतुत्वाच्च, द्विकपालात् त्रिकपालघटपरिमाणोत्कर्षस्य दलोत्कर्षादेवोपपत्तेरिति । तस्वमत्रत्यमार्हतवार्तायां विवेचयिष्यते । 1 १ नामकर्म वैचित्र्येण । २ शरीरवैचित्र्यात् । ३ समयग्राहकत्वम् घटादि संप्रदाय प्रवर्तकत्वं च । ४ कार्य तात्पर्यमित्यादिना प्रन्थेन पूर्वपक्षे ९४ पत्रे प्रतिपादितम् । ५ तव नैयायिकस्य । ६ आर्हतवाची अस्मच्छन्दः । Jain Education tional For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy