________________
शास्त्रवाता- समुच्चयः। ॥१०॥
सटीकः । स्तबकः।
स्तदापत्तिवारणायावच्छेदकतया तत्प्रयत्ने तया तद्भावस्य हेतोरापादकस्य सत्त्वात् , तत्तच्छरीरत्वेन तत्तत्मवृत्त्यादिहेतुत्वे गौर- वात् , कायव्यूहस्थलेऽपि योगजाऽदृष्टोपगृहीतत्वसंवन्धेन तदात्मवत्त्वस्य सर्वशरीरानुगतत्वात् ।।
अपि च, यथा कथञ्चिद् भूतावेशन्यायेन तच्छरीरपरिग्रहे जगदप्यावेशेनैव प्रवर्तयेत् , इति व्यर्थमस्य वेदादिप्रणयनम् । कर्मवदस्यापि दृष्टे-टानतिलकनेनैव प्रवर्तकत्वाद् नानुपपत्तिरिति चेत् । तर्हि परप्रवृत्तये वाक्यमुपदिशन् स्खेष्टसाधनताज्ञानादिकमपि कथमतिपतेत् ?, कथं वा चेष्टात्वावच्छिन्ने विलक्षणयत्नत्वेन हेतुत्वात् तदवच्छिन्नस्य विजातीयमनःसंयोगादिजन्यत्वात् तादृशप्रयत्नं विना ब्रह्मादिशरीरचेष्टा?, विलक्षणचेष्टायां विलक्षणप्रयत्नस्य हेतुत्वात् । अत्रेश्वरीययन एव हेतुरिति चेत् । तर्हि तस्य सर्वत्राविशिष्टत्वात् सर्वत्रापीश्वरचेष्टापत्तिः । विलक्षणचेष्टावच्छिन्नविशेष्यतया तत्प्रयत्नस्य हेतुत्वाद् नातिप्रसङ्ग इति चेत् । तर्हि चेष्टावैलक्षण्यसिद्धौ तथाहेतुत्वम् , तथाहेतुत्वे च तद्वैलक्षण्यमिति परस्पराश्रयः । किञ्च, स्वाधिष्ठातरि भोगाजनकशरीरादिसंपादनमपि तस्यैश्वर्यमात्रमेव, इति दृष्टविरोधेनैव जगत्प्रवृत्तिरायाता । एतेनैतत् प्रतिक्षिप्तम्
" हेत्वभावे फलाभावात प्रमाणेऽसति न प्रमा। तदभावात् प्रवृत्तिों कर्मवादेऽप्यं विधिः॥१॥" इति, कर्मणः कादिसापेक्षत्वेनैव जगदेतुत्वात् । समर्थितं च " धर्माऽधौं विना नाङ्ग विनाओंन मुखं कुतः ? । मुखाद् विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥" । अस्य- ईश्वरस्य । २ तच्छब्देनेश्वरः । ३ कुसुमाजलौ तृतीये स्तबके कारिका १८ ।
॥१०॥
Jain Education
a
l
For Private
Personel Use Only
www.jainelibrary.org