SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता- समुच्चयः। ॥१०॥ सटीकः । स्तबकः। स्तदापत्तिवारणायावच्छेदकतया तत्प्रयत्ने तया तद्भावस्य हेतोरापादकस्य सत्त्वात् , तत्तच्छरीरत्वेन तत्तत्मवृत्त्यादिहेतुत्वे गौर- वात् , कायव्यूहस्थलेऽपि योगजाऽदृष्टोपगृहीतत्वसंवन्धेन तदात्मवत्त्वस्य सर्वशरीरानुगतत्वात् ।। अपि च, यथा कथञ्चिद् भूतावेशन्यायेन तच्छरीरपरिग्रहे जगदप्यावेशेनैव प्रवर्तयेत् , इति व्यर्थमस्य वेदादिप्रणयनम् । कर्मवदस्यापि दृष्टे-टानतिलकनेनैव प्रवर्तकत्वाद् नानुपपत्तिरिति चेत् । तर्हि परप्रवृत्तये वाक्यमुपदिशन् स्खेष्टसाधनताज्ञानादिकमपि कथमतिपतेत् ?, कथं वा चेष्टात्वावच्छिन्ने विलक्षणयत्नत्वेन हेतुत्वात् तदवच्छिन्नस्य विजातीयमनःसंयोगादिजन्यत्वात् तादृशप्रयत्नं विना ब्रह्मादिशरीरचेष्टा?, विलक्षणचेष्टायां विलक्षणप्रयत्नस्य हेतुत्वात् । अत्रेश्वरीययन एव हेतुरिति चेत् । तर्हि तस्य सर्वत्राविशिष्टत्वात् सर्वत्रापीश्वरचेष्टापत्तिः । विलक्षणचेष्टावच्छिन्नविशेष्यतया तत्प्रयत्नस्य हेतुत्वाद् नातिप्रसङ्ग इति चेत् । तर्हि चेष्टावैलक्षण्यसिद्धौ तथाहेतुत्वम् , तथाहेतुत्वे च तद्वैलक्षण्यमिति परस्पराश्रयः । किञ्च, स्वाधिष्ठातरि भोगाजनकशरीरादिसंपादनमपि तस्यैश्वर्यमात्रमेव, इति दृष्टविरोधेनैव जगत्प्रवृत्तिरायाता । एतेनैतत् प्रतिक्षिप्तम् " हेत्वभावे फलाभावात प्रमाणेऽसति न प्रमा। तदभावात् प्रवृत्तिों कर्मवादेऽप्यं विधिः॥१॥" इति, कर्मणः कादिसापेक्षत्वेनैव जगदेतुत्वात् । समर्थितं च " धर्माऽधौं विना नाङ्ग विनाओंन मुखं कुतः ? । मुखाद् विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥" । अस्य- ईश्वरस्य । २ तच्छब्देनेश्वरः । ३ कुसुमाजलौ तृतीये स्तबके कारिका १८ । ॥१०॥ Jain Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy