SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ त्पत्तौ प्रयोजकः, तथेश्वरोऽपि प्रयोज्य-प्रयोजकद्धाभूय व्यवहारं कृत्वाऽऽद्यव्युत्पत्ति कारयति । न चात्र चेष्टया प्रवृत्तिम् , तया ज्ञानम् , तज्ज्ञाने उपस्थितवाक्यहेतुत्वम् , तज्ज्ञानविषयपदार्थे चाऽऽवापो द्वापाभ्यां तत्तत्पदज्ञानं हेतुत्वमनुमाय तत्तपदे तत्तदर्थज्ञानानुकूलत्वेन तत्तदर्थसंवन्धवत्वमनुमेयम् , एवं चाऽयं संबन्धग्रहो भ्रमः स्यात् , जनकज्ञानस्य भ्रमत्वात् , इति वाच्यम् । तत्वेऽपि विषयावाधेन प्रमात्वात् , चरमपरामर्शस्य प्रमात्वसंभवाच्च । एवमीश्वर एव कुलालादिशरीरं परिग्रह्य घटादि संप्रदाय प्रवर्तकः, अत एव श्रुतिः- "कुलालेभ्यो नमः, कारेभ्यः" इत्यादीति चेत् ।। न, अदृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहस्यैव भगवतोऽयुक्तत्वात् , अन्यादृष्टेनाऽन्यस्य शरीरपरिग्रहे चैत्राऽदृष्टाऽऽकृष्टं शरीरं मैत्रोऽपि परिगृह्णीयात् । प्राण्यदृष्टेन, घटादिवत् तत्तच्छरीरोत्पत्तिः, तत्परिग्रहस्तु भगवतस्तदावेश एवेति न दोष इति चेत् । न, घटादावतथात्वेऽपि तदीयशरीरे तदीयाऽदृष्टत्वेनैव हेतुत्वात् , अन्यथाऽतिप्रसङ्गात् । किश्च, कोऽयमावेशः । तदवच्छिन्नप्रयत्न एवेति चेत् । न, तदजन्यस्य प्रयत्नस्य तदनवच्छिन्नत्वात् । अथैवंभूनाsऽवेशानुपपत्तिः, तत्र हि भूतात्मन्येव चैत्रायवच्छेदेन प्रवृत्तिरङ्गीक्रियते, अन्यथा मृतशरीरे तदावेशानापत्तेरिति चेत् । इयमपि तवैवानुपपत्तिः, अस्माकं तु तत्र संकोच-विकाशस्वभावभूतात्ममदेशानुप्रवेशादुपपत्तेः । तव त्ववच्छेदकतया चैत्रप्रयत्न पति चैत्रशरीरत्वेनाऽवश्यं हेतुता वक्तव्या, अन्यथा मैत्रशरीरावच्छेदेन चैत्रप्रवृत्त्यापत्तेः, पाण्यादिचालकपयनसत्व एव पुन । तव- नैयायिकस्य । २ अस्माकम् - जैनानाम् । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy