SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः । ॥१००॥ ज्ञानेच्छाभ्यां विनिगमनाविरहात् क्लृप्तजातीयस्याऽदृष्टस्यैव ब्रह्माण्डधारकत्वकल्पनौचित्यात् । न चात्माऽविभुत्ववादिनः संवन्धानुपपत्तिः, असंबद्धस्यापि तत्कार्यजननशक्तस्य तत्कार्यकारित्वात्, अयस्कान्तस्याऽसंबद्धस्यापि लोहाऽऽकर्षकत्वदर्शनादितिः अन्यत्र विस्तरः | प्रयत्नस्य तु विलक्षणप्रयत्नत्वेन पतनप्रतिबन्धकसंयोगविशेष एव हेतुत्वम् । ब्रह्माण्डनाशक तयापि नेश्वरसिद्धिः, प्रलयाऽनभ्युपगमात् अहोरात्रस्याऽहोरात्रपूर्वकत्वव्याप्यत्वात् । न च वर्षादिनस्वनाऽव्यवहितवर्षादिनपूर्वकत्वे साध्ये राशिविशेषावच्छिन्नर विपूर्वकत्ववदत्रा व्यवहित संसारपूर्वकत्वमुपाधिः, राशिविशेषे वर्षा - दिनस्य हेतुत्वेन तत्रानुकूलतर्केणोपाधेः साध्यव्यापकत्वग्रहेऽप्यनुकूलतर्काभावेन प्रकृत उपाधेरसमर्थत्वात्, कालत्वस्य arrror यत्वाच्च । कर्मणां विषमविपाकतया युगपनिरोधसंभवात् सुषुप्तौ कतिपयादृष्टनिरोधस्य दर्शनावरणरूपाऽदृष्टसामर्थ्यादेवोपपत्तेर्वलवताऽदृष्टेनान्तरप्रतिरोधदर्शनात् : प्रलये तु कथं तादृशादृष्टं विनाऽदृष्टनिरोधः स्यात् ?, अन्यथा वनायाससिद्धो मोक्षः, इति किं ब्रह्मचर्यादिक्लेशानुभवेन ?, इत्यन्यत्र विस्तरः । एतेन ' आयव्यवहारादीश्वर सिद्धिः, प्रतिसमन्वादीनां बहूनां व्यवहारप्रवर्तकानां कल्पने गौरवादेकस्यैव भगवतः सिद्धेः' इत्यपास्तम्, सर्गादेरेवाऽसिद्धेः, इदानीमित्र सर्वदा पूर्वपूर्वव्यवहारेणैवोत्तरोत्तरव्यवहारोपपत्तेः । यदि तु सर्गादिरुपेयते, तदा तदानीं प्रयोज्य प्रयोजकदृद्धयोरभावात् कथं व्यवहारः १ । अथ यथा मायावी सूत्रसंवाराधिष्ठितदारुपुत्रकं 'घटमानय' इत्यादि नियोज्य घटाssनयनं संपाद्य बालकस्य व्यु १ कायप्रमाणात्मवादिनो जैनस्येत्यर्थः । Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । ॥ ३ ॥ ॥ १०० ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy