________________
2022ISPIRRORSCOOOOOOO
का; अत एव ज्ञानत्वावच्छेदेनाऽऽत्म-मनोयोगजन्यत्वं न बाधकमिति चेत् । न, ईश्वरसंबन्धस्य सर्वत्राविशेषेण 'इदमेवेश्वरशरीरम्' इति नियमायोगात् ; चेष्टाया अपि ज्ञानवदेकस्या नित्यायाश्च स्वीकारोचित्यात् , उक्तश्रुतेस्त्वदभिमतेश्वरज्ञानापक्षपातित्वाच्च, अन्यथाऽऽनन्दोऽपि तत्र सिध्येत् , ज्ञाना-ऽऽनन्दभेदश्चेति दिग् ।
आयोजनादपि नेश्वरसिद्धिः, ईश्वराधिष्ठानस्य सर्वदा सत्वेऽप्यदृष्टविलम्बादेवाऽऽयाणुक्रियाविलम्बात् , तत्र तद्धेतुRO त्वावश्यकत्वात् , दृष्टकारणसत्त्व एवाऽदृष्टविलम्बेन कार्याविलम्बात् , अदृष्टस्य दृष्टाघातकत्वात् , चेष्टात्वस्याऽनुगतत्वेनोपा
धित्वाच । तदवच्छिन्न एव हि जीवनयनव्यावृत्तेन प्रवृत्तित्वेन गमनत्वादि व्याप्यत्वे तु विलक्षणयनत्वेनैव हेतुत्वात् क्रियासामान्ये यत्नत्वेन हेतुत्वे मानाभावात् , 'यद्विशेषयोः' इत्यादिन्याये मानाभावात् ।
धृतेरपि नेश्वरः सिद्धिः, गुरुत्ववत्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याऽऽम्रफलादावेव व्यभिचारित्वात् । प्रतिवन्धकाभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवदिषुपतनाभावे तैथात्वात् । वेगाप्रयुक्तत्वस्यापि विशेषणत्वे मन्त्रविशेषप्रयुक्तगोलकपतनाभावे तैथात्वात् । अदृष्टाप्रयुक्तत्वस्यापि विशेषणत्वे च स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वात् । तदुक्तम्
"निरालम्बा निराधारा विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥१॥” इति । युक्तं चैतत् , ईश्वरप्रयत्नस्य व्यापकत्वेन समरेऽपि शरपाताऽनापत्तेः। पतनाभावावच्छिन्नेश्वरप्रयत्नस्य तथात्वे ताश
. तच्छब्देनाऽदृष्टम् । ३ ख. ग. घ. च. 'णे वे'। ३ व्यभिचारित्वादित्यर्थः ।
Jain Education
anal
For Private Personal Use Only
alwww.jainelibrary.org