SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ शाखवातासमुच्चयः। ॥९९॥ इति पद्येऽपि प्रतिपद्यमेवं मदीयम् सटीकः। पिनष्टीयं पिष्टं भवनियमसिद्धिव्यसितिः स्वभावाद् भूतानां मितसमयदेशस्थितिरिति । स्तबकः। अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां वृथा यद्वयापारो जगति जगदीशस्य कथितः ॥१॥ ॥३॥ इति दिग् । अत एवाऽग्रिमाण्यप्यनुमानान्यपास्तानि । किञ्च, 'द्वितीयानुमाने 'खोपादान-' इत्यत्र स्वपदस्य द्वयणुकादिपरत्वे साध्याप्रसिद्धिः, घटादिपरत्वे पटादौ संदिग्धा-of नैकान्तिकत्वम् , स्वोपादानगोचरत्वादिनाऽऽपाततोऽपि हेतुत्वाभावतोऽत्यप्रयोजकत्वं च । तृतीये ज्ञाने-च्छापदोपादानप्रयासः। चतुर्थे सर्गासिद्ध्या परं प्रति पक्षासिद्धिः। पञ्चमे तु क्षित्यादावकर्तृकत्वस्यैव व्यवहाराद् बाधः। विशेषान्वय-व्यतिरेकाभ्यां कर्तृत्वेन कार्यसामान्य एव हेतुत्वग्रहाद् न बाध इति चेत् । तर्हि शरीर-चेष्टयोरप्यन्वय-व्यतिरेकाभ्यां कार्यसामान्यहेतुत्वात् तयोरपि नित्ययोगीश्वरे प्रसक्तिः। अथ नित्यशरीरमिष्यत एव भगवतः । तत्र 'परमाणव एव प्रयत्नवदीश्वरात्मसंयोगाधीनचेष्टावन्त ईश्वरस्य शरीराणि' इत्येके । 'वायुपरमाणव एव नित्यक्रियावन्तस्तथा, अत एव तेषां सदागतित्वम्' इत्यन्ये । “आकाशशरीरं ब्रह्म" इति श्रुतेः 'आकाशस्तच्छरीरम्' इत्यपरे । चेष्टाया नित्यत्वे तु मानाभावः, नित्यज्ञानसिद्धौ तु श्रुतिरपि पक्षपातिनी, "नित्यं विज्ञानं०" इत्यादि १. ९२ पत्रे प्रथमे पृष्ठे पक्लिः ।। २. ९३ पत्रे प्रथमे पृष्ठे पक्तिः ।। ३. ९३ पत्रे प्रथम पृष्ठे पक्तिः । १. ९३ पत्रे प्रथमे पृष्ठे पशिः । ५ तथा-ईश्वरस्य शरीराणीत्यर्थः । KOR९९॥ Jain Education Interna For Private & Personal Use Only O ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy