________________
Jain Education I
योपादाननिष्ठतयोपादानप्रत्यक्षादित्रयहेतुताकल्पने गौरवात्, समवेतत्व संबन्धेनेश्वरीयत्वेन तत्रयानुगमेऽप्यसंसार्यात्मत्वलक्षश्वरत्वनिवेशे गौरवात्, प्रत्येकमादाय विनिगमनाविरहाच्च तत्कालावच्छिन्नतद्वावच्छिन्नत्वसंबन्धेन नियतेरेव हेतुत्वकल्पनौचित्यात्, इतर कारणवैयर्थ्यापत्तेश्च । तदनुमतदण्डत्वादिनाऽहेतुत्वात् दण्डादीनां हेतुत्वनियमस्य च स्वभावत एव संभवात्, न तदर्थमपीश्वरानुसरणम्, अन्यथा तज्ज्ञानादेस्तत्तत्कारणानुमतित्वेऽपि नियामकान्तरं गवेषणीयम् । धर्मिग्राहकमानेन तत् स्वतो नियतमेवेति चेत् । इदमपि तत एव किं न तथा १ । व्यवस्थितश्चायमर्थो 'न चाचेतनानामपि स्वहेतुसंनिधिसमासादितोत्पत्तीनां चेतनाधिष्ठातृव्यतिरेकेणापि देश-काला-ssकारनियमोऽनुपपन्नः, तन्नियमस्य स्वहेतुबलायातत्वात्' इत्यादिना ग्रन्थेन सम्मतिटीकायामपि ।
ational
किञ्च, एतादृशनियामकत्वं भवस्थ - सिद्धादिज्ञान एव इति किं 'शिपिविष्टकल्पनाकष्टेन । तदिदमुक्तं हेमसूरिभिः - "सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि संमतम् । मतं नैः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि हि " ॥ १ ॥ इति । युक्तं चैतत्, "मैं जहा भगवया दिहं तं तहा विपरिणामः" इति भगवद्वचनस्यापीत्थमेव व्यवस्थितत्वात् । एवं च " समालोच्य क्षुद्रेष्वपि भवननाथस्य भवने नियोगाद् भूतानां मितसमय-देश-स्थिति-लयम् । ar ! hi भ्रान्तिः सततमपि मीमांसनजुषां व्यवस्थातः कार्ये जगति जगदीशाऽपरिचयः १ ।। १ ।। " १शिपिविष्ठो महेशः । २ आईतानाम् । ३ यद् यथा भगवता दृष्टं तत् तथा विपरिणमते ।
For Private & Personal Use Only
www.jainelibrary.org