________________
PAGE
शास्त्रवार्तासमुच्चयः। ॥९८॥
सटीकः। स्तबकः।
तन्नाशानुकूलप्रवृत्तेः कण्टकादौ दर्शनात । न च जिहासयैव द्वेषान्यथासिद्धि; 'तद्धेतोः' इति न्यायात्; अन्यथा द्वेषपदार्थ एव न स्यात् , 'द्वेष्मि' इत्यनुभवे कचिदनिष्टसाधनताज्ञानस्य, कचिच्चाऽनिष्टत्वज्ञानस्यैव द्वेषपदेन तथाभिलापात् । एवं च कार्यसामान्ये द्वेषस्याऽपि हेतुत्वसिद्धौ नित्यद्वेषोऽपीश्वरे सिध्येत् । द्वेषवतः संसारित्वप्रसङ्ग इति चेत् । चिकीर्षावतोऽपि किं न सः १ । द्वेष-चिकीर्षयोस्तत्र समानविषयत्वे करणा-ऽकरणप्रसङ्गः, भिन्नविषयत्वे च तत्कार्य न कुर्यादेव, इति बाधकाद् द्वेषकल्पना त्यज्यत इति चेत् । एवमुत्तरकालोपस्थितबाधकेन तद्वाधोपगमे, नित्यज्ञानादिकल्पनागौरवादिबाधकेन क्लुप्तोऽपीश्वरस्त्यज्यताम् ।
एतेन 'पुरेषु पुरेशानामिव जगदीशज्ञानेच्छादित एव तत्तत्कार्याणां स्वल्पतमा-ऽधम-देश-कालादिनियमः, वदन्ति हि पामरा अपि- 'ईश्वरेच्छैव नियामिका' इति । न चैवं तत्तद्देश-कालनियततत्तत्कार्योत्पत्तिज्ञानादित एव तत्तकार्यानिर्वाहे गतं दण्डादिकारणत्वेनेति वाच्यम् । तदनुमतत्वेनैव दण्डादीनां घटादिहेतुत्वात् । न हि दण्डादिरेव घटादेरनन्यथासिद्धनियतपूर्ववर्ती, न वेमादिः, कपालादि समवायि, न तन्त्वादिकम् , इत्यत्राऽन्यद् नियामकं पश्यामः, इति तदनुमत्यादिकमेव । तथा, तदनुमत्यादिकं न साक्षात्, किन्तु तत्तत्कारणद्वारा तत्तत्संपादकम् । न हि राजाज्ञादितोऽपि विनांशुकं तन्त्वादि, विना तन्त्वादिकं पटादि' इति पामराशयानुसरणसंक्रान्तं पामरभावानां मतमपास्तम्, राजाज्ञादितुल्यतयेश्वरेच्छाया अहेतुत्वात, सामग्रीसिद्धस्य नियतदेश-कालत्वस्य तज्जन्यताघटकतया तदनियम्यत्वात् । अन्यथा तत्कालावच्छिन्नतद्धटावच्छिन्नविशेष्यत
१ ख. ग. घ. च ' ज्ञा'।
॥९८॥
Jain Education Inter
For Private
Personal Use Only
w.jainelibrary.org