SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte दकत्वकल्पनागौरवं नातिशेते । अपिच, तदुपादानप्रत्यक्षं निराश्रयमेवास्तु दृष्टविपरीतकल्पनभिया तु नित्यज्ञानादिकमपि कथं कल्पनीयम् १ | अभिहितश्चायमर्थो 'बुद्धिश्वेश्वरस्य यदि नित्या व्यापिकैवाऽभ्युपगम्यते, तदा सैवाऽचेतनपदार्थाधिष्ठात्री भविध्यति, इति किमपरतदाधारेश्वरपरिकल्पनया ?" इत्यादिना ग्रन्थेन सम्मतिटीकायामपि । किञ्च, एवं नानात्मस्त्रेव व्यासज्यवृत्ति तत्कल्प्यताम्, स्वाश्रयसंयुक्तसंयोगसंबन्धेन तेषु तत्कल्पनापेक्षया समवायेन तत्कल्पनाया एव तव न्याय्यत्वात् । न चैवं घटादिभ्रमोच्छेदापत्तिः, बाधबुद्धिसत्त्वादिति वाच्यम्; बाधबुद्धिप्रतिबन्धकतायां चैत्रीयत्वस्यावश्यं निवेश्यत्वात्, तच्च समवेतत्व संबन्धेन चैत्रवत्वं पर्याप्तत्वेन वा इति न किञ्चिद् वैषम्यम् । अपि च, 'देवतासंनिधानेन' इति पक्षेण प्रतिष्ठादिना स्वाभेदस्वीयत्वादिज्ञानं तदाहितसंस्काररूपं ब्रह्मादौ स्वीकृतम्, न च ब्रह्मादीनामीश्वरभेदः, भगवद्गीताविरोधात् । एवं वैषयिकसुख-दुःखादिश्रवणाद् धर्मा-धर्मावपि तत्राऽङ्गीकर्तव्यौ । न च विरोधः, ब्रह्मादिशरीरावच्छेदेनाऽनित्यज्ञानादिसत्वेऽप्यनवच्छिन्नज्ञानाविरोधात् । अत एवाऽन्ये तु 'स तपोऽतप्यत इति श्रुतेः, अणिमादिप्रतिपादकश्रुतेश्व धर्मा-धर्मावनित्यज्ञानादिकमपीश्वरे स्वीकुर्वन्ति इति शशधरेऽभिहितम् । एतन्मते च बाधादिप्रतिबन्धकतायामवच्छिन्न समवेतत्वेन चैत्रवच्वादिलक्षणचैत्रीयत्वादेरवश्यं निवेश्यत्वाद् नातिरिक्तनित्यज्ञानाश्रयसिद्धिः । किञ्च, प्रवृत्तिविशेषे इच्छान्वयव्यतिरेकवत् प्रवृत्तिविशेषे द्वेषाऽन्वयव्यतिरेकावपि दृष्टौ दुःखद्वेषेण तत्साधनद्वेषे १ नैयायिकस्य । For Private & Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy