________________
ARI
शाखबातासमुच्चयः ॥ ९७॥
सटीकः । स्तबकः। ॥३॥
यत्तु 'घटत्वाद्यवच्छिन्ने कृतित्वन हेतुत्वेऽपि खण्डघटाधुत्पत्तिकाले कुलालादिकृतेरसत्त्वादीश्वरसिद्धिः' इति दीधिति- कृतोक्तम् । तत्तुच्छम् , अस्माभिस्तत्र घटे खण्डत्वपर्यायस्यैवाभ्युपगमात् ; युक्तं चैतत् , प्रत्यभिज्ञोपपत्तेः, तत्र सादृश्यादिदोषेण भ्रमकल्पने गौरवात् । अत एव पाकेनापि नान्यघटोत्पत्तिः, विशिष्टसामग्रीवशाद् विशिष्टवर्णस्य घटादे व्यस्य कथञ्चिदविनाशेऽप्युत्पत्तिसंभवात , इति व्यक्तं सम्मतिटीकायाम् । परेषामपि स्वप्रयोज्यविजातीयसंयोगसंबन्धेन तत्काले सत्त्वाच्च । न च | वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटायुत्पत्तिकाले प्राक्तनपरमाणुद्वयसंयोगद्वयणुकादे शाद् नैवं संभवतीति वाच्यम् । | पूर्वसंयोगादिध्वंसपूर्वद्वयणुकादिध्वंसानामुत्तरसंयोगद्वयणुकादावन्ततः कालोपाधितयापि जनकत्वात् , तत्कालेऽपि कुलालादि
कृतेः स्वप्रयोज्यविजातीयसंयोगेन सत्त्वात् । अन्यथा घटत्वावच्छिन्ने दण्डादिहेतुत्वमपि दुर्वचं स्यात् । दण्डादिजन्यतावच्छेदक विलक्षणघटत्वादिकमेवेति चेत् । कृतिजन्यतावच्छेदकमपि तदेवेष्यताम् , कृतेर्लाघवाद् विशेष्यतयैव हेतुत्वात् । यत्र दण्डस्य स्वप्रयोज्यकपालद्वयसंयोगेन सत्त्वम् , न तु विशेष्यतया कुलालकृतिः, तत्रैव खण्डघटे तत्सिद्धिरिति चेत् । न, कृतेरपि वप्रयोज्यसंबन्धेनैव हेतुत्वात् , विजातीयसंयोगत्वेन संवन्धत्वे गौरवात् , घटत्वावच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वाच्चेति दिक् ।
किञ्च, उपादानप्रत्यक्षस्य लौकिकस्यैव हेतुत्वात् कथमीश्वरे तत्सिद्धिः ? । अपिच, प्रणिधानाद्यर्थं मनोवहनाड्यादौ प्रवृत्तिस्वीकाराद् यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिः, तद्धर्मावच्छिन्ने तत्पकारकज्ञानमात्रस्य हेतुत्वात् कथमुपादानप्रत्यक्षमीश्वरस्य ।। तस्यानुमितित्वे जन्यानुमितित्वं व्याप्तिज्ञानजन्यतावच्छेदकमिति गौरवोद्भावनं तु प्रत्यक्षत्वे जन्यप्रत्यक्षत्वस्येन्द्रियादिजन्यतावच्छे
१ क. 'योगादेणु'।
PRICORDIORAISISTER
4॥९७॥
Jain Education
anal
For Private & Personal Use Only
LEOwww.jainelibrary.org